पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१७
बालमनोरमा ।

तास्थ । भवितास्मि । भवितास्व: । भवितास्मः ।

२१९३ । लृट् शेषे च । (३-३-१३)

भविष्यदर्थाद्धातोर्लृट् स्यात्क्रियार्थायां क्रियायामसत्यां सत्यां च । स्य इद । भविष्यति । भविष्यत: । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः ।

२१९४ । लोट् च । (३-३-१६२)

विध्यादिष्वर्थेषु धातोर्लोट् स्यात् ।

२१९५ । आशिषि लिङ्लोटौ । (३-३-१७३)

२१९६ । एरुः । (३-४-८६)


भवितासिति ॥ सिपि तासि इडागमे ऊकारस्य गुणे अवादेशे तासस्त्योरिति सकारस्य लोप इति भावः । भावितास्थ इति ॥ थसि तासि इडागमे गुणे अवादेशे थसः सस्य रुत्वविसर्गविति भावः । भवितास्थेति । बहुवचने थे तासि इटेि गुणावादेशौ । भवितास्मीति ॥ मिपि तामि इटेि गुणावादेशौ । भवितास्व इति ॥ वसि तासि इटि गुणे अवादेशे रुत्वविमर्गौ । एव मसि भवितास्म इति रूपम् । इति लुट्प्रक्रिया॥ लृडिति ॥ धातोरित्यधिकृतम् । भविष्यति गम्यादयः इत्यतो भविष्यतीत्यनुवृत्तम् धात्वर्थेऽन्वेति । तदाह । भविष्यदर्थाद्धातोः लृट् स्यादिति ॥ तुमुन्ण्वुलौ क्रियायां क्रियार्थायामिति पूर्वसूत्रे क्रियार्थायां क्रियायामित्यर्थनिर्देशः स्थितः ततोऽन्यश्शेषः क्रियार्थायां क्रियाया असत्यामिति लभ्यते । चकारात् क्रियार्थाया क्रियाया सत्यामित्यपि लभ्यते । तदाह । क्रियार्थयां क्रियायां असल्यां सत्याञ्चेति ॥ ननु लृट् इत्येव सूत्रमस्तु । शेषे चेति मास्तु । भविष्यदर्थाद्धातोः लट् इत्येतावतैव क्रियार्थायां क्रियायां असल्या सत्याञ्च लृटो लाभ इति चेत् मैवम् । ‘शयिष्यत इति स्थीयत’ इत्यादौ भावकर्त्रौ: तुमुन् ण्वुल्भ्यां लृटो बाधाभावार्थत्वात् । न च वासरूपविधिना तत्सिद्धिश्शङ्क्या । क्तल्ल्युट् तुमुन् खलर्थेषु वा सरूपविधिर्नास्तीति तन्निषेधादित्यास्तां तावत् । स्य इडिति ॥ लृटस्तिपि स्यतासी लृलुटोरिति स्यप्रत्ययः । तस्य वलाद्यार्धधातुकत्वात् इडागम इत्यर्थः । भविष्यतीति स्य प्रत्ययस्य इटेि ऊकारस्य गुणे अवादेशे प्रत्ययावयवत्वात् सकारस्य षत्वे भविष्यतीति रूपमित्यर्थः । तसादै भविष्यत इत्याद्यप्येव योज्यम्। भविष्यामीत्यादौ अतो दीर्घो यञीति दीर्घः ॥ इति लृट् प्रक्रिया ॥ लोट्चेति ॥ विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु इत्यनुवर्तते । तदाह । विध्यादिष्विति ॥ विथ्यादिशब्दा अनुपदमेव लिड्विधौ व्याख्यास्यन्ते । आशिषीति ॥ आशिष्यपीत्यर्थः । आशासनमाशीः इष्टप्राप्तीच्छा । लोटस्तिपि विशेषमाह । एरुरिति॥X