पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
[भ्वादि
सिध्दान्तकौमुदीसहिता

२१९० । दीधीवेवीटाम् । (१-१-६)

दीधीवेव्योरिटश्च गुणवृद्धी न स्तः । भविता ।

२१९१ । तासस्त्योर्लोपः । (७-४-५०)

तासेरस्तश्च लोपः स्यात्सादैौ प्रत्यये परे ।

२१९२ । रि च । (७-४-५१)

रादौ प्रत्यये प्राग्वत् । भवितारौ । भावितारः । भवितासि । भवितास्थः । भवि


इत्यत आह । येन नेति ॥ येन स्थान्युत्तरवर्णेन परनिमित्तस्य नाव्यवधान व्यवधानं अवर्जनीयामिति यावत् । तेन वर्णेन व्यवहितेऽपि परनिमित्त कार्यं भवतीत्यर्थः । कुत इत्यत आह । वचनप्रामाण्यादिति ॥ तथाविधवर्णव्यवधाने कार्यप्रवृत्तौ वचनारम्भस्यैव प्रमाणत्वादित्यर्थः । लघूपधस्यहीको गुणो विधीयते । उपधात्वञ्चान्त्यादलः पूर्वस्यैव भवति । तनश्चेक उपर्यन्त्यस्य वर्णस्याभावे इक उपधात्वाभावाल्लघूपधस्याङ्गस्य गुणविधान निर्विपयमेव स्यात् । अतस्तह्यXवधान सोढव्यमिति भावः । ननु व्यवहितस्यापीको गुणप्रवृत्यभ्युपगमे भिनत्तिX न्छिनत्तीत्यादी इकारस्यापि गुणस्यादित्यत आह । तेनेति ॥ अवर्जनीयव्यवधानस्यैवाश्रXयणेनत्यर्थः । उपधात्वस्यैकमेव वर्णमुपारितनमादाय सम्भवादनेकवर्णव्यवधान नादर्नव्यामिति भावः । गुणे प्राप्ते इति ॥ भविन् आ इति स्थिते डाभावसम्पन्नम्याकारस्य स्थानिवत्वेन सार्वधातुकतया तस्मिन् परे भवित् इत्यङ्गावयवस्योपधाभूतस्येकारस्य गुणे प्राप्ते सतीत्यर्थ । न च भूधातोर्विहित सार्वधातुक प्रति भूधातुरेवाङ्गत्वात्। न तु भवित्X इति विकरणविशिष्टमिति वाच्यम्। अङ्गसज्ञारम्मे तदादिग्रहणेन विकरणविशिष्टस्याप्यङ्गत्वात् । दीधीव इति ॥ दीधीइ दीप्तिदवनयेाः । वेवीड् वेतिना तुल्ये। दीधिश्च वेवीश्च इट्चेति द्वन्द्वात् षष्ठी। इको गृणवृद्धी इत्यतो गृणवृद्धी इति । न धातुलोप इत्यतो नेतेि चानुवर्तते । तदाह । दीधीवेव्योरित्यादिना ॥ अथ प्रथमपुरुषद्विवचने तसि परे शबपवादे तासि इडागमे ऊकारस्य गुणे अवादेशे तसो रौभावे भवितास् रौ इति स्थिते रिचेति सकारस्य लोपं वक्ष्यन् तत्रानुवृत्तिप्रतिपत्तये तत्पूर्वसूत्रमुपन्यस्यति । तासस्त्योरिति ॥ तास्चास्तिश्चेति द्वन्द्वात् षष्ठी । सस्यार्धधातुक इत्यतोऽनुवृत्तेन सीति सप्तम्यन्तेनाधिकृताङ्गाक्षिप्तप्रत्ययस्य विशेषणात् तदादिविधिः । तदाह । तासेरित्यादि ॥ अस्तेरिति श्निपा निर्देशः । अस् धातोरित्यर्थः । अलोऽन्त्यस्येत्यन्त्यस्य लोपः। भवितासीत्यनुपदमेवोदाहरण वक्ष्यते । रिचेति ॥ तासस्योर्लोप इति सूत्र अस्ति वर्जमनुवर्तते। रीत्यनेनाङ्गाक्षिप्तप्रत्ययस्य विशेषणात्तदादिविधिः । तदाह । रादाविति । प्राग्वदिति ॥ तासेर्लोप इत्यर्थः । अस्तिस्तु नानुवर्तते । ततो रादिप्रत्ययस्यासम्भवात् । आर्धधातुके तस्य भूभावविधानात् । एवञ्च भवितास् रावित्यत्र सलोपे सति रूपमाह । भविताराविति । भवितार इति ॥ झौ तासि इडागमे ऊकारस्य गुणे अवादेशे झेः रस् इत्यादेशे तासस्सकारस्य लोपे रसस्सकारस्य रुत्वविसर्गाविति भावः ।