सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१९९
बालमनोरमा ।

'गातिस्था –’ (२२२३) इति सिचो लुक् । अगात् । अगाताम् । अगुः । इङ् १०४६ अध्ययने । नित्यमधिपूर्वः । अधीते । अधीयाते । अधीयते ।

२४५९ । गाङ् लिटि । (२-४-४९)

इङो गाङ् स्याल्लिटि लावस्थायां, विवक्षिते वा । अधिजगे । अधिजगाते । अधिजगिरे । अध्येता । अध्येष्यते । अध्ययै । गुणायादेशयोः कृतयोरुपसर्गस्य यण् । 'पूर्वं धातुरुपसर्गेण-' इति दर्शनेऽन्तरङ्गत्वाद्गुणात्पूर्वं सवर्णदीर्घः


इण्धातो गा इत्यादेशस्स्याल्लुडीति सूत्रार्थ स्पष्टः । अगा स् त् इति स्थिते आह । गातिस्थेतीति ॥ लृडि ऐष्यत् । इङ् अद्ध्ययने इति ॥ अधिरुपरिभावे । उपरिभावश्च पठने नियमपूर्वकत्वमिति भूवादिसूत्रे भाष्ये स्पष्टम् । नित्यमधिपूर्वः इति ॥ धातुपाठे वचनमिदम् । अधीते इत्यत्र धातुरुपसर्ग न व्यभिचरतीति भूवादिसूत्रे भाष्ये । अधीते इति ॥ 'सार्वधातुकमपित्' इति ङित्त्वात् गुणनिषेधे सवर्णदीर्घः । तदाह । अधीयाते । अधीयते इति ॥ अधीषे । अधीयाथे । अधीध्वे । अधीये । अधीवहे । अधीमहे । गाङ् लिटि । इङ इति ॥ ‘इङश्च' इत्यतस्तदनुवृत्तेरिति भावः । स्थानिवत्त्वादेव ङित्त्वे सिद्धे ङित्करण ‘गाङ्कुटादिभ्यः' इत्यत्र 'इणो गा लुङि' इत्यस्य ग्रहणाभावार्थमिति भाष्यम् । ननु कृते गाङादेशे द्वित्वे अभ्यासजश्त्वे आल्लोपे अधिजगे इति रूप वक्ष्यति । तदयुक्तम् । 'द्विर्वचनेऽचि' इति गाङादेशनिषेधात् गाङादेशात् प्रागेव द्वित्वे सति उत्तरखण्डस्य गादेशे अधीगे इति रूपापत्तेरित्यत आह । लावस्थायां, विवक्षिते वेति ॥ तत्र लावस्थायामिति वार्तिकमते एकादेशात् प्रागेव 'द्विर्वचनेऽचि' इति सूत्र न प्रवर्तते । द्वित्वनिमित्ताचोऽभावात् । विवक्षिते इति भाष्यमते तु सुतरा 'द्विर्वचनेऽचि' इति न प्रवर्तते । अनैमित्तिकत्वादिति भावः । अधिजगिरे इति ॥ अधिजगिषे । अधिजगाथे । अधिजगिध्वे । अधिजगे । अधिजगिवहे । अधिजगिमहे । लोटि अधीताम् । अधीयाताम् । अधीयताम् । अधीष्व । अधीयाथाम् । अधीध्वम् इति सिद्धवत्कृत्य आह । अध्द्ययै इति ॥ तत्र प्रक्रिया दर्शयति । गुणायादेशयोरिति ॥ ‘पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण’ इति 'सुट्कात्पूर्वः' इति सूत्रसिद्धान्तादिति भावः । तथाच इट एत्त्वे आटि वृद्धौ अधि इ ऐ इति स्थिते गुणे अयादेशे यणिति फलितम् । ननु ‘पूर्व धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इत्यपि पक्षः ‘सुट्कात्पूर्व’ इति सूत्रभाष्ये स्थितः । तथाच अधि इ ऐ इति स्थिते पूर्वं सवर्णदीर्घे सति गुणायादेशयो कृतयो अधयै इति स्यादित्याशङ्क्य निराकरोति । पूर्वन्धातुरिति ॥ साधनेनेत्यस्य कारकबोधकेनेत्यर्थः । प्रत्ययेनेति यावत् । दर्शन इत्येतस्य मते इत्यर्थः । ‘पूर्वन्धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इति पक्षे पूर्वप्रवृत्तिकत्वेन अन्तरङ्गत्वात् ‘सार्व-