सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
[अदादि
सिध्दान्तकौमुदीसहिता

इणोऽभ्यासस्य दीर्घः स्यात्किति लिटि । ईयतुः । ईयुः । इययिथ-इयेथ । ऐत् । ऐताम् । आयन् । इयात् । ईयात् ।

२४५७ । एतेर्लिङि । (७-४-२४)

उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि । निरियात् । 'उभयत आश्रये नान्तादिवत् –' । अभीयात् । ‘अणः किम्' । समेयात् । 'समीयात्' इति प्रयोगस्तु भौवादिकस्य ।

२४५८ । इणो गा लुङि । (२-४-४५)


इणोऽभ्यासस्य दीर्घस्यात् किति लिटि । ईयतुरिति ॥ भारद्वाजनियमात्थलि वेडिति मत्वा आह । इययिथ-इयेथेति ॥ ईयथुः । ईय । इयाय-इयय । ईयिव । ईयिम । एता । एष्यति । एतु—इतात् । इताम् । यन्तु । इहि-इतात् । इतम् । इत । अयानि । अयाव । अयाम । ऐदिति ॥ लडि तिप इकारलोपे इकारस्य गुणे आटो वृद्धिः । आयन्निति ॥ झेरन्तादेशे इकारलोपे आ इ अन् इति स्थिते ‘इणो यण्’ इति यणि कृते तस्याभीयत्वेनासिद्धत्वादाडिति भावः । ऐः । ऐतम् । एत । आयम् । ऐव । ऐम । विधिलिङ्याह । इयादिति ॥ इयाताम् । इयुरित्यादि । आशीर्लिङ्याह । ईयादिति ॥ 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः । ईयास्तामित्यादि । एतेर्लिङि ॥ 'उपसर्गाध्द्रस्व ऊहते' इत्यतः उपसर्गाध्द्रस्व इति ‘केऽणः’ इत्यतः अण इति 'अयङ् यिक्ङिति' इत्यतः कितीति चानुवर्तते । तदाह । उपसर्गात्परस्येत्यादि ॥ इह आर्धधातुके इति प्रामादिकम् । पूर्वसूत्रेषु तदभावादनुवृत्तेरसम्भवात्, किति लिडीत्येव सिद्धेश्च । ङितीति तु नानुवर्तते । इण आर्धधातुकलिडो ङित्त्वाभावात् । नन्वभीयादित्यत्रापि ह्रस्वः स्यादित्यत आह । उभयतः इति ॥ अत्र एकादेशस्य ईकारस्य पूर्वान्तत्वे उपसर्गानुप्रवेशादिण्धातुत्वन्न सम्भवति । परादित्वेन इण्धातुत्वाश्रयणे तु नोपसर्गात्परत्वम् । उपसर्गैकदेशस्य ईकारस्य ईकारात्मना सत्त्वेन अभ् इत्यस्य उपसर्गत्वाभावात् । एकादेशस्य आदिवत्त्वमाश्रित्य इण्धातुत्वम्, अन्तवत्त्वमाश्रित्य तस्य उपसर्गानुप्रवेशश्चेत्यपि न सम्भवति । पूर्वपरशब्दाभ्यां अन्तादिशब्दाभ्याञ्च विरोधस्य पुरस्स्फूर्तिकतया विरुद्धातिदेशद्वयस्य युगपदसम्भवादित्यर्थः । इदञ्च अन्तादिवत्सूत्रे भाष्ये स्पष्टम् । न च अभ् इति भान्तस्य एकदेशविकृतन्यायेन उपसर्गत्वात् ईकारस्य परादिवत्त्वे ह्रस्वो दुर्वार इति वाच्यम् । लक्ष्यानुसारेण क्वचित् एकदेशविकृतन्यायानाश्रयणादिति शब्देन्दुशेखरे विस्तरः । समेयादिति ॥ आ इयात् एयात् । समेयादित्यत्र एकारस्य अनण्त्वान्न ह्रस्वः । ग्रहणकसूत्रादन्यत्र पूर्वेणैव णकारेण प्रत्याहाराश्रयणादिति भावः । तर्हि क्वचित् समीयादिति प्रयोगः कथमित्याशङ्क्याह । समीयादिति प्रयोगस्तु भौवादिकस्येति ॥ ‘इट किट कटी गतौ’ इति प्रश्लिष्टस्य इधातोराशीर्लिङि ‘अकृत्सार्वधातुकयोर्दीर्घः' इति दीर्घो बोध्द्य इति भावः । लुङि विशेषमाह । इणो गा लुङि ॥