पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
[अदादि
सिध्दान्तकौमुदीसहिता


२४५१ । आहस्थः । (८-२-३५)

झलि परे चर्त्वम् । आत्थ । आहथुः ।

२४५२ । ब्रुव ईट् । (७-३-९३)

ब्रुवः परस्य हलादेः पित ईट् स्यात् । 'आत्थ' इत्यत्र स्थानिवद्भावात्प्राप्तोऽयं झलिति थत्वविधानान्न भवति । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते । आर्धधातुकाधिकारे ।

२४५३ । ब्रुवो वचिः । (२-४-५३)

उवाच । ऊचतुः । ऊचुः । उवचिथ-उवक्थ । ऊचे । वक्ता ।


व्यक्तं भविष्यति । आहेति ॥ ब्रूधातोर्लटस्तिपो णलि प्रकृतेराहादेशः । सिपस्थलि प्रकृतेराहादेशे आह् थ इति स्थिते हस्य ढत्वे प्राप्ते । आहस्थः ॥ आह इति षष्ठ्यन्तम् । ‘झलो झलि’ इत्यतो झलीत्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । झलि परे इति ॥ आह् इत्यस्य थकारः स्यात् झलीति फलितम् । अलोऽन्त्यस्य इत्यन्त्यस्य भवति । चर्त्वमिति ॥ आथ् थ इति स्थिते प्रथमथकारस्य खरि चेति चर्त्वे आत्थ इति रूपमित्यर्थः । नच आहादेशस्य अकारान्तत्वे तु हकारादकारस्य थकारादेशे हस्य ढत्वे चर्त्वे आट्त्थ इति स्यादिति बोध्यम् । पञ्चानां णलाद्यभावपक्षे आह । ब्रुव ईट् ॥ 'नाभ्यस्तस्य' इत्यतः पितीति ‘उतो वृद्धिः' इत्यतो हलीति चानुवर्तते । तदाह । ब्रुवः परस्येत्यादिना ॥ ननु आत्थेत्यत्र आहादेशस्य स्थानिवत्त्वेन ब्रूत्वात्ततः परस्य थस्य ईडागमः स्यादित्यत आह । आत्थेत्यत्रेति ॥ स्थानिवद्भावात् प्राप्तोऽयमीडागमः न भवतीत्यन्वयः । कुत इत्यत आह । झलि थत्वविधानादिति ॥ 'आहस्थ' इति झलि परत आहादेशस्य थत्व विधीयते । ईटि तु सति झलादित्वाभावात्तन्निर्विषय स्यात् । अतः आत्थेत्यत्र ईट् नेति विज्ञायते इत्यर्थः । ब्रुवन्तीति ॥ ब्रवीषि । ब्रूथः । ब्रूथ । ब्रवीमि । ब्रूवः । ब्रूमः । लट आत्मनेपदे आह । ब्रूते इति ॥ ‘ब्रुवः पञ्चानाम्' इत्यत्र परस्मैपदानामित्यनुवृत्तेराहादेशो न । ब्रुवाते । ब्रुवते । ब्रूषे । ब्रुवाथे । ब्रूध्वे । ब्रुवे । ब्रूवहे । ब्रूमहे । ब्रुवो वचिः ॥ ब्रुवो वचिरादेशः स्यादार्धधातुके इत्यर्थः । इकार उच्चारणार्थः । उवाचेति ॥ अकिति द्वित्वे कृते 'लिट्यभ्यासस्य’ इति सम्प्रसारणमिति भावः । ऊचतुरिति ॥ किति द्वित्वात्प्राक् 'वचिस्वपियजादीनाम्' इति सम्प्रसारणे द्वित्वे कृते हलादिशेषे सवर्णपरत्वात् ‘अभ्यासस्यासवर्णे' इत्युवडभावे सवर्णदीर्घ इति भावः । वचिरनिट्सु परिगणितः । तस्य भारद्वाजनियमात्थलि वेट् । तदाह । उवचिथ-उवक्थेति ॥ इडभावे 'चोः कुः' 'ब्रुव ईट्' इत्यत्र 'नाभ्यस्तस्य’ इत्यतः सार्वधातुकग्रहणस्याप्यनुवृत्तेरीड् न । ऊचथुः । ऊच । उवाच-उवच । ऊचिव । ऊचिम । क्रादिनियमादिट् । ऊचे इति ॥ ऊचाते । ऊचिरे । ऊचिषे । ऊचाथे । ऊचिध्वे । ऊचे । ऊचिवहे । ऊचिमहे । वक्तेति ॥ वच्यादेशे इण्निषेधः । वक्ष्यति ।