सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१९५
बालमनोरमा ।

द्यौति । द्योता । षु १०४१ प्रसवैश्वर्ययोः | प्रसवोऽभ्यनुज्ञानम् । सोता । असौषीत् । कु १०४२ शब्दे । कोता । ष्टुञ् १०४३ स्तुतौ । स्तौति-स्तवीति । स्तुतः-स्तुवीतः । स्तुते—स्तुवीते । 'स्तुसुधूञ्भ्यः -' (सू २३८५) इतीट् । अस्तावीत् । 'प्राक्सितात्–' (सू २२७६) इति षत्वम् । अभ्यष्टौत् । 'सिवादीनां वा –' (सू २३५९) । पर्यष्टौत्-पर्यस्तौत् । बूञ् १०४४ व्यक्तायां वाचि ।

२४५० । बुवः पञ्चानामादित आहो ब्रुवः । (३-४-८४)

बुवो लटः परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः । अकार उच्चारणार्थः । आह । आहतुः । आहुः ।


उतो वृद्धिः । सार्वधातुके लिटि च युधातुवत् । द्योतेति ॥ द्योष्यति । अद्यौषीत् । षु प्रसवेति ॥ षोपदेशोऽयम् । अनिट् । सौतीत्यादि द्युधातुवत् । एवं कु शब्दे इत्यपि । ष्टुञ् स्तुताविति ॥ उभयपदी अनिट् । 'तुरुस्तुशम्यम’ इति ईड्विकल्पं, ईडभावपक्षे तु उतो वृद्धिं च मत्वा आह । स्तौति-स्तवीतीति ॥ स्तुवन्ति । स्तौषि-स्तवीषि । स्तुथ-स्तुवीथ । स्तुथ-स्तुवीथ । स्तौमि-स्तवीमि । स्तुवः-स्तुवीवः । स्तुम-स्तुवीम । आत्मनेपदे लटि ईड्विकल्पं मत्वा आह । स्तुते-स्तुवीते इति ॥ स्तुवाते । स्तुवते । स्तुषे-स्तुवीषे । स्तुवाथे । स्तुध्वे-स्तुवीध्वे । स्तुवे । स्तुवहे-स्तुवीवहे । स्तुमहे-स्तवीमहे । लिटि तुष्टाव । तुष्टुवतुः । तुष्टुवुः । क्रादित्वात्थल्यपि नेट् भवति । तुष्टोथ । तुष्टुवथुः । तुष्टुव । तुष्टाव-तुष्टव । तुष्टुव । तुष्टुम । तुष्टुवे इत्यादि । स्तोता । स्तोष्यति । स्तोष्यते । स्तौतु-स्तवीतु । स्तुतात्-स्तुवीतात् । स्तुताम्-स्तुवीताम् । स्तुवन्तु । स्तुहि-स्तुवीहि । स्तुतात्-स्तुवीतात् । स्तुतम्-स्तवीतम् । स्तुत-स्तुवीत । स्तवानि । स्तवाव । स्तवाम । स्तुष्व-स्तुवीष्व । स्तुवाथाम् । स्तुध्वम्-स्तुवीध्वम् । स्तवै । स्तवावहै । स्तवामहै । लङि अस्तौत्-अस्तवीत् । अस्तुताम्-अस्तुवीताम् । अस्तुवन् । अस्तौः-अस्तवीः । अस्तुतम्-अस्तुवीतम् । अस्तुत-अस्तुवीत । अस्तवम् । अस्तुव-अस्तुवीव । अस्तुम-अस्तुवीम । अस्तुत-अस्तुवीत । अस्तुवाताम् इत्यादि । विधिलिङि स्तुयात्-स्तुवीयात् इत्यादि । स्तोषीष्टेत्यादि । लुडि सिचि इडभावे प्राप्ते आह । स्तुसुधूञ्भ्यः इति ॥ तथाच ‘इट ईटि' इति सिज्लोपे सिचि वृद्धौ अस्तावीदिति फलति । अस्ताविष्टामित्यादि । 'स्तुसुधूञ्भ्यः' इत्यत्र परस्मैपदेष्वित्यनुवृत्तेरात्मनेपदे इट् न । अस्तोष्ट । अस्तोषाताम् इत्यादि । बूञ् व्यक्तकायां वाचीति ॥ उभयपदी । ब्रुवः पञ्चानाम् ॥ 'परस्मैपदानां णलतुस्' इत्यतः उत्तरसूत्रमिदम् । ‘विदो लटो वा' इत्यतः लटो वेत्यनुवर्तते । तदाह । ब्रुवो लटः इति ॥ आदितः पञ्चानामिति ॥ तिप् तस् झि सिप् थस् इत्येषामित्यर्थः । णलादयः पञ्चेति ॥ णल् अतुस् उस् थल् अथुस् इत्येते पञ्चेत्यर्थः । उच्चारणार्थः इति ॥ तत्प्रयोजनमात्थेत्यत्रानुपदमेव