पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१९३
बालमनोरमा ।

तोष्यति । णु १०३५ स्तुतौ । नौति । नविता । टुक्षु १०३६ शब्दे । क्षौति । क्षविता । क्ष्णु १०३७ तेजने । क्ष्णौति । क्ष्णविता । ष्णु १०३८ प्रस्रवणे । स्नौति । सुष्णाव । स्नविता । स्नूयात् । ऊर्णञ् १०३९ आच्छादने ।

२४४५ । ऊर्णोतेर्विभाषा । (७-६-९०)

वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊर्णौति-ऊर्णोति । ऊर्णुत: । ऊर्णुवन्ति । ऊर्णुते। ऊर्णुवाते । ऊर्णुवते । ‘ऊर्णोतेराम्नेति वाच्यम्’ (वा १८०२)

२४४६ । नन्द्राः संयोगादयः । (६-१-३)

अचः पराः संयोगादयो नदराः द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् । 'पूर्वत्रासिद्धीयमद्विर्वचने' (प १२७) इति त्वनित्यम् । 'उभौ साभ्यासस्य' (सू २६०६) इति लिङ्गात् । ऊर्णुनाव । उर्णुनुवतुः । उर्णुनुवुः ।


हिततिड ईड्विधानमेवात्र बीजम् । शम्यमोस्तु, शमीध्वम् । अभ्यमीति । इति वेदे शपो लुकि बोध्द्यम् । अयमनिट्। हलादौ सार्वधातुके रुधातुवत् । आर्धधातुके तु नेट् । तदाह । तोतेति । णु स्तुताविति ॥ णोपदेशोऽयं सेट् । युधातुवद्रूपाणि । क्षुक्ष्णुस्नुधातवः सेट: । युधातुवद्रूपाणि । चुक्षाव । चुक्ष्णाव । सुष्णाव इति ॥ षोपदेशोऽयमिति भावः । ऊर्णुञ् धातुरुभयपदी । सेट् । उतो वृद्धेर्नित्य प्राप्तौ । ऊर्णोतेर्विभाषा ॥ ‘उतो वृद्धिः' इत्यतो वृद्धिरिति, हलीति, चानुवर्तते । 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति च इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । वृद्धिः स्यादित्यादिना ॥ लिटि ‘इजादेः’ इति ‘कास्यनेकाच्’ इति च आमि प्राप्ते आह । ऊर्णोतेराम् नेति ॥ ऊर्णोतेर्नुवद्भावस्य वक्ष्यमाणतया इजादित्वस्य अनेकाच्त्वस्य चाभावादिति भावः । णलि ऊर्णु अ इति स्थिते ‘अजादेर्द्वितीयस्य’ इति र्नु इति रेफसहितस्य द्वित्वे हलादिशेषे नकारस्य निवृत्तौ ऊरुनावेति प्राप्ते । नन्द्राः संयोगादयः ॥ 'एकाचो द्वे प्रथमस्य’ इत्यतो द्वे इत्यनुवर्तते । 'अजादेर्द्वितीयस्य' इत्यतः अजादेरिति । अच्चासौ आदिश्चेति कर्मधारयात्पञ्चमी । न्, द्, र्, एषां द्वन्द्वः । तदाह । अचः पराः इति ॥ ननु णु इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयेतेत्यत आह । नुशब्दस्य द्वित्वमिति ॥ णत्वस्येति ॥ धातुपाठे ऊर्णु इति नकारस्य कृतणत्वस्य निर्देशः । द्वित्वे कर्तव्ये तस्य णत्वस्यासिद्धत्वादित्यर्थः । लिङ्गादिति ॥ ‘उभौ साभ्यासस्य’ इत्यस्यायमर्थः । साभ्यासस्यानितेरुपसर्गस्थान्निमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वम्प्राप्नुत इति प्राणिणत् इत्युदाहरणम् । अत्र अनितेः इति णत्वे कृते ‘पूर्वत्रासिद्धीयमद्विर्वचने' इति णत्वस्यासिद्धत्वाभावमाश्रित्य णि इत्यस्य द्वित्वादेव खण्डद्वये णकारश्रवणसिद्धेः 'उभौ साभ्यासस्य' इति वचनं 'पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्यानित्यताङ्गमयतीत्यर्थः । ऊर्णनावेति ॥ नुशब्दस्य द्वित्वे पूर्वनकारस्य 'रषाभ्याम्'