सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
[अदादि
सिध्दान्तकौमुदीसहिता

द्धिः–' न । भाष्ये 'पिच्च ङिन्न ' 'ङिच्च पिन्न' इति व्याख्यानात् । विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधात् । यूयात् । अयावीत् । रु १०३४ शब्दे ।

२४४४ । तुरुस्तुशम्यमः सार्वधातुके । (७-३-९५)

एभ्यः परस्य सार्वधातुकस्य हलादेस्तिङ ईड्वा स्यात् । 'नाभ्यस्तस्य--' (सू २५०३) इत्यतोऽनुवृत्तिसम्भवे पुनः सार्वधातुकग्रहणमपिदर्थम् । रवीति -- रौति । रुवीतः-रुतः । 'हलादेः' किम् । रुवन्ति । 'तिङः' किम् । शाम्यति । 'सार्वधातुके' किम् । आशिषि रूयात् । विद्ध्यादौ तु रुयात्-रुवीयात् । अरावीत् । अरविष्यत् | 'तु' इति सौत्रो धातुर्गतिवृद्धिहिंसासु । 'अयञ्च लुग्विकरणः' इति स्मरन्ति । तवीति-तौति । तुवीतः-तुत: । तोता ।


इत्यत आह । भाष्ये इति । व्याख्यानादिति ॥ ‘हलःश्नश्शानज्झौ’ इति सूत्रव्याख्यावसरे वचनादित्यर्थः । ननु यासुडागमसहितस्य तिपः पित्त्वात् 'पिच्च ङिन्न' इत्युक्तवचनेन ‘यासुट् परस्मैपदेषु' इति ङित्त्वस्याप्यभावात् 'क्ङिति च' इति गुणनिषेधाभावात् गुणस्स्यादित्यत आह । विशेषविहितेनेत्यादि बाधादित्यन्तम् ॥ ‘यासुट् परस्मैपदेषु' इति विशेषविहितेन यासुटो ङित्त्वेन तत्सहितस्य तिपो 'ङिच्च पिन्न'इति पित्त्वप्रयुक्तडित्त्वनिषेधस्य बाधात् ङित्त्वाद्गुणनिषेधो निर्बाध इत्यर्थः । आशीर्लिङ्याह । यूयादिति ॥ आर्धधातुकत्वान्न वृद्धिः । ‘अकृत्सार्वधातुकयोः' इति दीर्घः । यूयास्ताम् इत्यादि । लुडयाह । अयावीदिति । सिचि वृद्धिः । इट ईटि ' इति सिज्लोपः । अयाविष्टाम् इत्यादि । अयविष्यत् । तुरुस्तु ॥ तु रु स्तु शमि अम् एषां समाहारद्वन्द्वात् पञ्चम्येकवचनम् । ‘उतो वृद्धिः’ इत्यतो हलीति ‘भूसुवोः’ इत्यतस्तिडीति 'ब्रुव ईट्’ इत्यतः ईडिति 'यडो वा' इति चानुवर्तते । तदाह । एभ्यः इत्यादिना । नाभ्यस्तस्येति ॥ ‘नाभ्यस्तस्याचि पिति सार्वधातुके' इत्यतः सार्वधातुके इत्यनुवृत्तिसम्भवे पुनः सार्वधातुकग्रहण पिति इत्यस्यानुवृत्तिर्माभूदित्येतदर्थमित्यर्थः । रवीतीति ॥ ईट्पक्षे हलादित्वाभावात् उतो वृद्धिर्नेति भावः । रौतीति ॥ ईडभावे ‘उतो वृद्धिः’ इति भावः । रुवीतः-रुतः इति ॥ अपित्त्वेऽपि ईड्विकल्प इति भावः । रुवन्तीति ॥अन्तादेशे कृते हलादित्वाभावादीडभावे उवङिति भावः । शाम्यतीति ॥ श्यनस्तिड्त्वाभावादीट् नेति भावः । आशिषि रूयादिति ॥ आर्धधातुकत्वादीडभावे 'अकृत्सार्वधातुकयोः' इति दीर्घः । विध्द्यादौ त्विति ॥ आदिना निमन्त्रणादिसङ्ग्रहः । रुयात्-रुवीयादिति ॥ हलादिसार्वधातुकत्वात् ईड्विकल्प इति भावः । ईडभावपक्षे हलादौ पिति सार्वधातुके ‘उतो वृद्धिः’ इति बोध्यम् । ननु धातुपाठे तुधातोरदर्शनात् धातुत्वाभावात्कथन्ततः सार्वधातुकस्य ईड्विधिरित्यत आह । तु इति सौत्रो धातुरिति । गतिवृद्धिहिंसास्विति ॥ अत्र व्याख्यानमेव शरणम् । ननु शपा व्यवधानादस्य सार्वधातुकपरत्व कथमित्यत आह । अयञ्च लुग्विकरणः इति स्मरन्तीति ॥ ‘अव्यव-