सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१८७
बालमनोरमा ।

त्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम्’ (प ९७) इति ज्ञापनार्थः । तेन 'स्फायन्निर्मोकसन्धि-' इत्यादि सिद्ध्यति । चष्टे । चक्षाते । 'आर्धधातुके' (सू २३७७) इत्यधिकृत्य ।

२४३६ । चक्षिङः ख्याञ् । (२-४-५४)

२४३७ । वा लिटि । (२-४-५५)

अत्र भाष्ये ख्शादिरयमादेशः । असिद्धकाण्डे 'शस्य यो वा' (वा १५८६) इति स्थित्तम् । ञित्त्वात्पदद्वयम् । चख्यौ—चख्ये । चक्शौ– चक्शे । 'चयो द्वितीयाः –’ (वा ५०२३) इति तु न । चर्त्वस्यासिद्धत्वात् । चचक्षे । ख्याता-क्शाता । ख्यास्यति-ख्यास्यते । क्शास्यति-क्शास्यते । अचष्ट ।


डकारः नित्यात्मनेपदार्थ । अनुदात्तेत्त्वप्रयुक्त त्वात्मनेपदङ्कदाचिन्न स्यात् । अतो डकारोच्चारणम् । अत एव ‘अनुदात्तेत्त्वप्रयुक्तात्मनेपदमनित्यम्’ इति विज्ञायते इत्यर्थः । स्फायन्निति ॥ स्फायी वृद्धावित्यनुदात्तेतोऽपि लट् शत्रादेशः । न त्वात्मनेपद शानजिति भावः । वस्तुतस्तु अन्त्येत्कत्वव्याघातेन चरितार्थत्वात् डकारोच्चारणमुक्तार्थे कथं ज्ञापकम्, भाष्ये तथा अनुक्तत्वाच्च । अतः पृषोदरादित्वकल्पनया स्फायन्निति कथञ्चित्साध्द्यमित्याहुः । चष्टे इति ॥ 'स्कोः' इति कलोपः ष्टुत्वञ्चेति भावः । चक्षाते इति ॥ चक्षते । थासः सेभावे 'स्कोः' इति कलोपे 'षढोः' इति षस्य कत्वे षत्वे च कृते चक्षे । चक्षाथे । ध्वमि 'स्कोः' इति कलोपे षस्य जश्त्वेन डकारे चड्ढ्वे । चक्षे । चक्ष्वहे । चक्ष्महे । आर्धधातुके इत्यनन्तरम् इत्यनुवर्तमाने इति शेषः । चक्षिङः ख्याञ् ॥ 'चक्षिङः ख्याञ्' स्यादार्धधातुके परे इत्यर्थः । वा लिटि ॥ 'चक्षिङ् ख्याञ्’ वा स्याल्लिटीत्यर्थः । अत्रेति ॥ ‘चक्षिङ् ख्याञ्’ इति सूत्रभाष्ये ख्शादिरयमादेश इति ‘पूर्वत्रासिद्धम्’ इत्यधिकारे ‘ख्शाञ् शस्य यो वा वक्तव्यः’ इति च स्थितमित्यर्थः । तेन पुङ्ख्यानमित्यत्र यत्वस्यासिद्धत्वात् ‘पुम खय्यम्परे’ इति रुत्वन्नेति हल्सन्धिनिरूपणे प्रपञ्चितम् । ञित्त्वात्पदद्वयमिति ॥ परस्मैपदमात्मनेपदञ्चेत्यर्थः । चख्यौ इति ॥ ख्शादेशस्य शस्य यत्वपक्षे 'आत औ णलः' इति भावः । चख्यतुः । चख्युः । भारद्वाजनियमात्थलिवेट् । चख्यिथ-चख्याथ । चख्यथुः । चख्य । चख्यौ । चख्यिव । चख्यिम । क्रादिनियमादिट् । लिटि तडि ख्याञादेशस्य शस्य यत्वपक्षे आह । चख्ये इति ॥ चख्याते । चख्यिरे । चख्यिषे । चख्याथे । चख्यिध्वे । चख्ये । चख्यिवहे । चख्यिमहे । शस्य यत्वाभावपक्षे त्वाह । चक्शौ-चक्शे इति ॥ खस्य चर्त्वेन कः इति भावः । कृते चर्त्वे तस्य 'चयो द्वितीयाः शरि' इति खकारमाशङ्क्य निराकरोति । चयः इति ॥ अथ ख्याञादेशाभावपक्षे आह । चचक्षे इति ॥ चचक्षिषे । चचक्षिध्वे । चचक्षिवहे । ख्यास्यते इति ॥ चष्टाम् । चक्षाताम् । चक्षताम् । चक्ष्व । चक्षाथाम् । चड्ढ्वम् । चक्षै । चक्षावहै । चक्षामहै । लड्याह । अचष्टेति ॥ अचक्षाताम् । अचक्षत । अचष्ठाः । अचक्षाथाम् । अचड्ढ्वम् । अचक्षि । अच-