पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
[अदादि
सिध्दान्तकौमुदीसहिता

वृद्धिः । प्रणिदेग्धि । लिह १०१६ आस्वादने । लेढि । लीढः । लिहन्ति । लेक्षि । लीढे । लिक्षे । लीढ्वे । लेढु । लीढाम् । लीढि । लेहानि । अलेट् । अलिक्षत् । अलिक्षत । अलिक्षताम् । अलीढ । अलिक्षावहि । अलिह्वहि । अलेक्ष्यत् । अलेक्ष्यत । चक्षिङ् १०१७ व्यक्तायां वाचि । अयं दर्शनेऽपि । इकारोऽनुदात्तो युजर्थः । 'विचक्षणः प्रथयन्' । नुम् तु न । 'अन्ते इदितः’ इति व्याख्यानात् । डकारस्तु ‘अनुदा-


दुहधातुवद्रूपाणि । लिह आस्वादने इति ॥ अनिट् । लेढीति ॥ शपो लुकि ढत्वधत्वष्टुत्वढलोपाः । लेक्षीति ॥ सिपि हस्य ढः ‘षढोः’ इति ढस्य कः इति भावः । लीढः । लीढ । लेह्मि । लिह्वः । लिह्मः । लटि तड्याह । लीढे इति ॥ लिहाते । लिहते । लिक्षे इति ॥ ढकषाः । लिहाथे इति सुगमम् । लीढ्वे इति ॥ ढत्वधत्वष्टुत्वढलोपदीर्घाः । लिहे । लिह्वहे । लिह्महे । लेढा । लेक्ष्यति । लेक्ष्यते । लेढ्विति ॥ लीढात् । लीढाम् । लिहन्तु । लीढीति ॥ हेर्धिः ढत्वधत्वष्टुत्वढलोपदीर्घाः । लीढात् । लीढम् । लीढ । लेहानीति ॥ आटः पित्त्वेन डित्त्वाभावाद्गुण इति भावः । लेहाव । लेहाम । लीढाम् । लिहाताम् । लिहताम् । लिक्ष्व । लिहाथाम् । लीढ्वम् । लेहै । लेहावहै । लेहामहै । अलेडिति ॥ लडि तिपि शपो लुकि इकारलोपे हल्ड्यादिलोपे हस्य ढः चर्त्वविकल्प इति भावः । अलीढाम् । अलिहन् । अलेट् । अलीढम् । अलीढ । अलेहम् । अलिह्व । अलिह्म । अलीढ । अलिहाताम् । अलिहत । अलीढा । अलिहाथाम् । अलीढ्वम् । अलिहि । अलिह्वहि । अलिह्महि । अलिक्षदिति ॥ लुडि क्सः । अलिक्षताम् । अलिक्षन् । अलिक्षः इत्यादि । तडि आह । अलिक्षतेति । अलीढेति ॥ 'लुग्वा दुह' इति क्सलोपपक्षे रूपम् । अलिक्षाताम् । अलिक्षन्त । अलिक्षथाः –अलीढाः । अलिक्षाथाम् । अलिक्षध्वम्-अलीढ्वम् । अलिक्षि । 'लुग्वा दुह' इति लुग्विकल्पम्मत्वा आह । अलिक्षावहि । अलिह्वहीति ॥ अलेक्ष्यत् । अलेक्ष्यतेति ॥ द्विषादयश्चत्वारः स्वरितेतो गताः । चक्षिङ् व्यक्तायां वाचीति ॥ गृढार्थस्य स्पष्टप्रतिपत्त्यर्थे विवरणे इत्यर्थः । अयं दर्शनेऽपीति ॥ श्रुतौ “पूर्वापरञ्चरतो माययैतौ । शिशू क्रीडन्तौ परियातो अध्वरम् । विश्वान्यन्यो भुवनाभिचक्षे । ॠतूनन्यो विदधज्जायते पुनः" इत्यादौ तथा दर्शनादिति भावः । ननु चक्षिडित्यत्र इकारोच्चारण व्यर्थं न च सुखोच्चारणन्तदिति वाच्यम् । अकारोच्चारणेनैव तत्सिद्धेः । नाप्यनुदात्तेत्त्वप्रयुक्तात्मनेपदार्थं तदिति शक्य वक्तुम् । डित्त्वादेव तत्सिद्धेरित्यत आह । इकारोऽनुदात्तो युजर्थः इति ॥ ‘अनुदात्तेतश्च हलादेः' इति ल्युडपवादयुच्प्रत्ययार्थं इत्यर्थः । अकारमुल्लङ्घ्य इकारोच्चारणन्तु उच्चारणार्थत्वाभावप्रतिपत्त्यर्थमिति भावः । “विचक्षण प्रथयन्” इति मन्त्रः । अत्र लित्स्वरनिवृत्तये युच्प्रत्यय इति भावः । ननु युच्प्रत्ययार्थमिकारस्य इत्सज्ञावश्यकत्वे नुमागमः स्यादित्यत आह । नुम् तु नेति ॥ कुत इत्यत आह । अन्ते इदितः इति ॥ ‘इदितो नुम् धातोः' इत्यत्र 'गोः पदान्ते' इत्यस्मादन्ते इत्यनुवृत्तेरिति भावः । नन्विकारे युजर्थम् अनुदात्तत्वस्य इत्सज्ञकत्वस्य च आवश्यकत्वे तत एवात्मनेपदसम्भवात् डकारोच्चारण व्यर्थमित्याशङ्क्य आह । ङकारस्त्विति ॥