पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
६६७
बालमनोरमा ।

१०८० । द्विगोर्लुगनपत्ये । (४-१-८८)

द्विगोर्निमित्तं यस्तद्धितोऽजादिरनपत्यार्थः प्राग्दीव्यतीयस्तस्य लुक्स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । “ द्विगोर्निमित्तम्' इति किम् । पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । ' अजादिः' किम् । पञ्चगर्गे रूप्यम् । “ अनपत्ये' किम् । द्वयोर्मित्त्रयोरपत्यं द्वैमित्त्रि ।

१०८१ । गोत्रेऽलुगचि । (४-१-८९)


पदत्वात्सयोगान्तलोपः, आदिवृद्धिः । प्रत्ययसकारस्तु श्रूयते, उभाभ्यामपि नञ्प्रत्ययस्यैव विधौ तु पुंसस्सकारस्य सयोगान्तलोपे पुन्नः इति स्यादिति भावः । वत्यर्थेनेति ॥ 'तेन तुल्यङ्कि याचेद्वतिः’ इति वतिप्रत्ययो वक्ष्यते । तस्यार्थे स्त्रीपुंसाभ्यान्नञ्चन्नञ्जौ न भवत इत्यर्थः । कुत इत्यत आह । स्त्री पुंवचेति ज्ञापकादिति । अन्यथा पुंवदिति निर्देशोऽनुपपन्नः स्या दिति भावः । न च पुवदिति निर्देशः पुंस्शब्दाद्वत्यर्थे स्नञभाव ज्ञापयेत्, नतु स्रीशब्दान्नः ञाभावमपीति वाच्यम् । नञ्स्रजोरेकसूत्रोपात्ततया वत्यर्थ स्नञभावे ज्ञापिते सति स्त्रीशब्दान्न ञभावस्यापि लाभात् । ज्ञापकस्य सामान्यापेक्षत्वात् । तदुक्तम्भाष्ये “योगापेक्षं ज्ञापकम्” इति । द्विगोर्लगनपत्ये ॥ द्विगेरिति हेतुत्वसम्बन्धे षष्ठी, लुक्श्रवणात् प्रत्ययस्येत्युपस्थितम्। प्रत्य यादर्शनस्यैव लुक्त्वात् । तथाच द्विगुनिमित्तस्य प्रत्ययस्य लुगिति लभ्यते । द्विगुनिमित्तश्च प्रत्यय तद्वित एव भवति । तद्धितार्थे विषये तद्विधानात् । ततश्च द्विगुनिमित्तस्य तद्धितस्येति लभ्यते । प्राग्दीव्यत इत्यनुवृत्तः प्राग्दीव्यतीयत्वन्तद्धितविशेषणम् । “गोत्रेऽलुगवि' इत्युत्तरसूत्रे सप्तम्य न्तस्य गोत्रविशेषणतया तदादिविधिः । अजादावित्यर्थकमचीति पदमिहापकृष्यते । तच षष्ठया विपरिणतन्तद्वितविशेषणम् । तदाह । द्विगोर्निमित्तमित्यादिना । पञ्चकपाल इति ॥ ‘संस्कृतं भक्षाः’इत्यणि तद्धितार्थे द्विगुः अणोलुक् प्रत्ययलक्षणाभावान्नादिवृद्धिः|पञ्चकपालस्येद मिति ॥ पञ्चसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे अणि विवक्षिते द्विगुसमासे अणेो लुकि निष्पन्नात् पञ्चकपालशब्दात् ‘तस्येदम्’ इत्याणि आदिवृद्धौ पाञ्चकपालमित्यत्राणो लुग्न भवति । निमित्तत्वा भावादिति भावः । पञ्चगर्गरूप्यमिति ॥ पञ्चभ्यो गर्गेभ्यः आगतमित्यर्थे 'हेतुमनुष्येभ्यः' इति रूप्यप्रत्ययः । “तद्धितार्थ' इति द्विगुसमासनिमित्तत्वेऽपि अजादित्वाभावात् न लुगिति भावः । द्वैमित्त्रिरिति । अत्र “ अत इञ्' इति इञोऽपत्यार्थकत्वान्न लुगिति भावः । न च तिस्रो विद्या अधीयानः त्रैविद्य इत्यत्राप्यणो लुक् स्यादिति वाच्यम् । व्यवयवा विद्या त्रिविद्या। शाकपार्थिवादिः । त्रिविद्यामधीते त्रैविद्य इति विग्रहे त्रिविद्याशब्दादणो द्विगुनिमित्तत्वाभावात् । प्राग्दीव्यतीयस्येति किम् । पञ्चभ्यः कपालेभ्यो हितं पञ्चकपालीयम् । गोत्रेऽलुगचि ॥ अलुगिति च्छेदः । प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच प्राग्दीव्यतीये प्रत्यये इति लब्धम्, अचीति तद्विशेषणं, तदादिविधिः, विषयसप्तम्येषा, नतु परसप्तमी । तदाह ।