पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नित्यता निरञ्जनता निस्पन्दता निराभासता ।
निरुत्थानता इति पञ्चगुणा निजा शक्तिः ॥८॥
अस्तिता अप्रमेयता अभिन्नता अनन्तरता ।
अव्यक्तता इति पञ्चगुणा परा शक्तिः ।। ९ ।।
स्फुरत्ता स्फुटता स्फारता स्फोटता स्फुर्तिता ।
इति पञ्चगुणा अपरा शक्तिः ॥ १० ॥
निरंशता निरन्तरता निश्चलता निश्चयता ।
निर्विकल्पता इति पञ्चगुणा सूक्ष्मा शक्तिः ।। ११ ।।
पूर्णता प्रतिबिम्बता प्रबलता प्रोच्चलता ।
प्रत्यङ्मुखता इति पञ्चगुणा कुण्डलिनी शक्तिः ॥ १२॥
एवं शक्तितत्वे पञ्च - पञ्च - गुण - योगात्परपिण्डोत्पत्तिः।१३।।
उक्तञ्च :-
निजा पराऽपरा सूक्ष्मा कुण्डली तासु पञ्चधा ।
शक्तिचक्रक्रमेणोत्था जातः पिण्डः परः शिवः ॥ १४ ॥
अपरम्परं परमं पदं शून्यं निरञ्जनं परमात्मेति ।
अपरम्परात्स्फुरत्ता - मात्रमुत्पन्नं परमपदात्भावना -
मात्रमुत्पन्नम् शून्यात्स्वसत्तामात्रमुत्पन्नं निरञ्जनात्स्व​-
साक्षात्कारमुत्पन्नं परमात्मनः परमात्मोत्पन्नः ॥ १५॥
अकलङ्कत्वमनुपमत्वमपारत्वममूर्तत्वमनुदयत्वमिति
पञ्चगुणमपरम्परम् ॥ । १६ ।।
निष्कलत्वमणुतरत्वमचलत्वमसंख्यत्वमपरित्वमिति
पञ्चगुणं परमं पदम् ॥ १७॥


६–कुण्डलिन्यासु (इ.), कुण्डलीतासु (का). ७-क्रमेणोत्थः (ह.). क्रमेणैव ( का. ). ८–शिवे (का. ). ९ -साक्षात्कारमात्रमुत्पन्न ( ३. ). १०-आधारत्वं (है. ).