पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीगोरक्षनाथकृत-

सिद्धसिद्धान्तपद्धतिः॥


प्रथमोपदेशः ।


॥ श्रीगणेशाय नमः ॥


आदिनाथं नमस्कृत्य शक्तियुक्तं जगद्गुरुम् ।
वक्ष्ये गोरक्षनाथोऽहं सिद्धसिद्धान्तपद्धतिम् ॥१॥
नास्ति सत्यविचारेऽस्मिन्नुत्पत्तिश्चाण्डपिण्डयोः ।।
तथापि लोकवृत्त्यर्थं वक्ष्ये सत्सम्प्रदायतः ॥ २॥
सा पिण्डोत्पत्त्यादिः सिद्धमते सम्यक् प्रसिद्धा ।
पिण्डोत्पत्तिः पिण्डविचारः पिण्डसंवित्तिः
पिण्डाधारः पिण्डपदसमरसभावः श्रीनित्यपिण्डावधूतः ॥३॥
यदा नास्ति स्वयंकर्ता कारणं न कुलाकुलम् ।
अव्यक्तं च परं ब्रह्म अनामा विद्यते तदा ॥ ४॥
अनामेति स्त्रयंमनादि सिद्धमेकमेवानादिनिधनं
सिद्धसिद्धान्तप्रसिद्धं तस्येच्छामात्रधर्माधर्मिणी
निजा शक्तिः प्रसिद्धा ॥५॥
तस्या उन्मुखमात्रेण परा शक्तिरुत्थिता ।
तस्यास्स्पन्दनमात्रेण​ अपरा शक्तिरुत्थिता ॥६॥
ततोऽहन्तार्धमात्रेण​ सूक्ष्मशक्तिरुत्पन्ना ।
ततो वेदनशीला कुण्डलिनी शक्तिरुद्गता ॥७॥


१ -श्रीनियाद्धूत (ह.). २-न ( यो. तं. ). ३ -उन्मुखत्व ( ह.). ४ :- तस्य (ह. ). ५-अहन्तार्थ (ह. ).