पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१

यावद्ब​द्धा नभो मुद्रा तावद्बिन्दुर्न गच्छति ।
चरितोऽपि यदा विन्दुः संप्राप्तस्य हुताशनम् ॥५९॥
व्रजमूर्ध्वं तथा शक्त्या निबद्धो योनिमुद्रया ।
सततं द्विविधो विन्दुः पाण्डुरो लोहितस्तथा ॥ ६० ॥
पाण्डुरं शुक्लमित्याहुः लोहिताख्यं महारजः
सिन्धूरर​जसंकाशं रविस्थाने स्थितं रजः ॥ ६१ ॥
शक्तिस्थाने स्थितो विन्दुस्तयोरैक्यं सुदुर्लभम् ।
बिन्दुः शिवो रजश्शक्तिः लम्बे यदारजः (विन्दुरिन्दुः रजो रविः ।।६२।
यदा रजः विन्दोः सहैकत्वं भवेद्दिव्यं वपुस्तथा ।
सुप्रभया संगमादेव ताप्य​ते ह्यमुत्रपदम् ।
वायुना शक्तिं चालयेदिन्दु विन्दु रजो रविः ॥ ६३ ॥
शुक्रं चन्द्रेण संयुक्तं रजस्ट्र्येण संयुतम् ।
द्वयोस्समरसैकत्वं यो जानाति स योगवित् ।। ६४ ।।
शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः ।
रसना शोषणं चैव महामुद्रां च योऽभ्यसेत् ।। ६५ ॥
हंस (वक्ष) न्यस्त हनुः प्रपीडयत रसाः (सुचिरं) योनिं च वामांघ्रिणा।
हस्ताभ्यां हनुं धारयेत् प्रसारितं पादं तथा दक्षिणम् ।। ६६ ।।
आपूर्य श्वसनेन कुक्षिविवरं बध्वा शनैः रेचयेत् ।
सर्वव्याधिविनाशिनीति महती मुद्रा नॄणां प्रोच्यते ।। ६७ ॥
सूर्याङ्गेण​ समभ्यस्य चन्द्राङ्गेणाभ्यसेत्पुनः
यावत्तुल्या भवेत्संख्या ततो मुद्रां विसर्जयेत् ।। ६८ ॥
न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः ।
अपि भुक्तं विषं घोरं पीयूषमिव जीर्यते ॥ ६९ ॥
क्षयकुष्ठगुदावर्त​गुल्मशूल​ज्वरव्यथा ।
रोगाः सर्वे क्षयं यान्ति महामुद्रां च योऽभ्यसेत् ॥ ७० ॥