पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०

महामुद्रा नभोमुद्रा ओड्याणं च जलन्धरम् ।
मूलबन्धं च यो वेत्ति स योगी सिद्धिभाग् भवेत् ।। ४६ ॥
अपानप्राणयोरैक्यं क्षयो मूत्रपूरीषयोः ।
युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ ४७ ॥
पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् ।
अपानमुर्ध्व​माकृष्य मूलबन्ध निगद्यते ॥ ४८॥
ओड्याणं कुरुते यस्मादविश्रान्तं महाखगः ।
ओड्याणं च तथैव स्यात्तच्च बद्धो विधीयते ॥४९॥
उदरात्पश्चिमे भागे अधो नाभेस्तथा युते ।
ओब्याणाख्यो स्वयं बद्धो मृत्युमातङ्गकेसरी ॥ ५०॥
बध्नाति हि शिराजालं अधो नाभिं नभोजलम्।।
ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः ॥५१॥
जालन्धरे कृते बद्धे कर्ण (कण्ट​) संकोचलक्षणे ।
पीयूषं न पतत्यग्नौ न च वायुः प्रकृप्य​ति ॥ ५२ ॥
चित्तं चरति खे यस्माज्जिह्वा चरति गे गता ।
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ॥ ५३ ॥
भ्रुवोरन्तर्गता दृष्टि र्मुद्रा भवति खेशरी ॥ ५४ ॥
न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा ।
न च मूच्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ ५५ ॥
तेनैषा खेचरी मुद्रा सर्वलिद्धेर्नमस्कृता ।
गुदमूल शरीराणां (बिन्द्रसूल शरीरं यः) शिरस्तत्र प्रतिष्ठिसम्॥५६॥
भावयन्ति शरीराणां (शरीरं यः) आपादतलमस्तकः ।
खेचरीं (र्या) मुद्रितं येन विवरं लम्बिकोर्ध्व​तः ॥ ५७ ॥
न तस्य क्षरते बिन्दुः कामिन्याश्लेषितस्य च ।
यावद्विन्दुः स्थितो देही (हे) तावन्मृत्युभयं कुतः ॥५८॥