५८
हृदि प्राणो वशी नित्यं अपानो गुदमण्डले ।
समानो नाभिदेशे तु उदानः कण्ठमध्यगः ।। २३ ।।
व्यानो व्याप्य शरीरे तु प्रधाना पञ्च वायवः
प्राणाद्याः पञ्च विख्याताः नागाद्याः पञ्चवायवः ।। २४ ।।
नागो गृह्यन्ति पञ्चैताः कूर्म उन्मीलने स्थितः ।
क्षुधं करोति कृकरो देवदत्तो विजृम्भणे ।। २५ । ।
वृत्तं धनञ्जयः शब्दे क्षणमात्रं न निश्रयेत् ।
एवं नाडीसहस्रेषु वर्तन्ते जीवरूपिणः ॥ । २६ ॥
प्राणापानवशाच्छ्वासो अधश्चोर्द्ध्वं प्रधावति ।
वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ।। २७ ॥ ।
आक्षिप्तो भुविपाशेन (भुजदण्डेन) यथा चलति कन्दुकः ।
प्राणापानसमुत्क्षिप्तस्तत्त्व (था) जीवो न विश्रमेत् ॥ २८॥
रज्जुबंधे यथान्योऽन्यो (श्येनो) गतोऽप्याकृष्यते पुनः ।
गुणबन्धस्तथा जीवः प्राणापानेन कृष्यते ।। २९ ॥
प्राणेनाकृष्यतेऽपानः प्राणोऽपानेन कृष्यते ।
उर्द्ध्वं चाधःस्थितावेतौ यो जानाति स योगवित् ॥ ३० ॥
हंकारेण बहिर्याति सकारेण विशेत्पुनः ।
हंसो हंसेत्यमुं मंत्रं जीवो जपति सर्वदा ॥ ३१ ॥
षट्च्छतान्यहोरात्रं सहस्राण्येकविशंतिः ।
एतत्संख्यान्वितं मंत्रं जीवो जपति सर्वदा ॥ ३२॥
अजपा नाम गायत्री योगिनां मोक्षदाय (यि) का ।
अस्य संकल्पमात्रेण नरः पापैः प्रमुच्यते ॥ ३३ ॥