पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५

मिक्षाहाररतः क्व​चित् क्व​चिदपि प्राप्नोति भोगास्पदम् ।
सर्वत्राप्रतिबद्धवृत्तिरखिलक्लेशापहा योगिराट् ॥ ७२ ॥
श्रीमद्गोर​क्षनाथेन सदामरौघवर्तिना ।
लयमंत्रहठाः प्रोक्ताः राजयोगाय केवलम् ।। ७३ ।।
कायेनैव परीक्षेत वाक्पठुः किं करिष्यति ।
चिकित्सापाठमात्रेण रोगिणः किं करिष्यति ॥ ७४ ॥

।। इति श्रीमद्गोरक्षनाथविरचितं --

अमरौघप्रबोधं सम्पूर्णम् ॥