पृष्ठम्:साहित्यसारः.pdf/11

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

साहित्यसारे

लसन्मृदुपदावल्या बालव्युत्पत्तिकारणम् ।
तेन साहित्यसारोऽसौ क्रियते नाट्यलक्षणम् ॥ १ १ ।।

आहृतं भरतात्किञ्चिदुत्तरात्किञ्चिदुद्धृतम् ।
कलितं कोहलात्किञ्चित्किञ्चिद्भरतविस्तरात् ।। १२ ।।

शास्त्रमेतदनालोच्य स्वबुद्ध्या नाटकादिषु ।
पद्यं वा पदमेकं वा यः करोति समन्दधीः ।। १३ ।।

यश्शब्दशास्त्रनिशित: स्वभावविशदाशयः ।
भरतादिषु निष्णातः स हि साहित्यपण्डितः ।। १४ ।।

अशास्त्रज्ञः प्रयोक्ता च प्रेक्षावानपि कोविदैः ।
अस्य तन्त्रस्य तत्त्वज्ञैः निर्लभ इति कथ्यते ।। १५ ।

अभियोगाभिभूतात्मा रसभानविभावकः ।
पठिताशेषभरतः प्रयोक्ता भरतोदितम् ॥ १६ ॥

गुणागुणगणाशेषपरीक्षाप्रवणाशयैः ।
शास्त्रमेतदशेषेण बोद्धव्यं प्रेक्षकैरपि ।। १७ ।।

वस्तुनस्तत्त्वमास्थाय तन्मयत्वेन भावकः ।
सुप्रसन्नाशयः प्रोक्तः प्रेक्षको नाट्यकोविदैः ।। १८ ।।

नाट्यं दशविधैर्भेदै: भिन्नं संज्ञासमन्वितैः ।
ताननेकपदाकारं निरुक्त्यैव वदाम्यहम् ।। १९ ।।

नाटकं सप्रकरणं भाणेहामृगवीथय: ।
व्यायोगः समवाकारः साङ्गं प्रहसनं डिम: ।। २० ।।

अन्येषां प्रकृतित्वेन निश्शेषैर्लक्षणैस्सह ।
तत्र नाटकमाचार्यैरादावेव विचार्यते ।। २१ ।।

नटानामिदमित्याहुर्नाटकं वा विचक्षणाः ।
चत्वारो ब्रह्मणः पुत्रा नटास्तु भरतादयः ॥२२॥