जानन्ति तत्वेन विदुस्ततः पराः
कामैः समाकृष्टधियो विचक्षणाः ॥ १७ ॥
अहं तु साक्षात्तव पादपङ्कजं
नित्यं भजानोऽपि पृथङ्मतिर्विभो ।
पुरात्ममानं प्रचिकीर्षुरात्मनः
सकाशतोऽप्यद्य मलं निकृन्तयन् ॥ १८ ॥
अथापि ते देव पदाम्बुजद्वयं
निकामलामाय सदास्तु मे हरेः ।
यच्चिन्तनात्सर्वमनोऽनुकूला
सिद्धिर्भवत्येव किमु प्रकीर्तनात् ॥ १९ ॥
इति मे संस्तुतिं ज्ञात्वा भगवान्प्रणतार्तिहा ।
ममाक्षिगोचरं रूपमकरोत्स दयापरः ॥ २० ॥
सान्द्रानन्दमहेन्द्रनीलमणिवद्देहोद्गतमोल्लस-
त्स्वर्णैमौलिषु हारकुण्डलयुगैः केयूरकाञ्च्यङ्गदैः ।।
मञ्जीरैर्विलसत्पिशङ्गवलयं लक्ष्म्याङ्कितं शाश्वतम्
सर्वेशं करुणाकरं सुरवरैर्भक्तैः समासेवितम् ॥ २१ ॥
दृष्ट्वा तत्पदपङ्कजं हृदि दधे गोविन्ददामोदर
श्रीकृष्णेति मुखैर्वदन् त्रिजगतो भर्तुर्मुदाऽहं तदा ।
नेत्रैर्निझरवारिपूरमिव मे गात्रे च हर्षस्ततो
वाण्यां गद्गदतां विलोक्य भगवान् मामाह भक्तप्रियः ॥२२॥
ज्ञतां मे सुरवर्य वाञ्छिततरां मद्भक्तसङ्गावलिं
तत्तेऽहं प्रवदामि ते करुणया भक्ताय साकं वरैः ।
मल्लीलां गदतो भविष्यति भवत्सः जना वैष्णवाः ।
भार्या चापि तथानुकूलसुखदा भक्ताग्रणीर्मे, भवान् ॥ २३ ॥
एतावदुक्त्वा भगवान् गतो लोकमलौकिकम्
अहं च तान्वरॉल्लब्ध्वा कृतार्थोऽस्मि द्विजर्षभ ।। २४ ।।