सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
सास्वततन्त्रे-


श्रीनारद उवाच ॥

धन्योऽस्म्यनुगृहीतोऽस्मि त्वयातिकरुणात्मना ।
यतः कृष्णस्य परमं सहस्रं नामकीर्तितम् ॥ २२१ ॥
यद्यालस्यात्प्रमादाद्वा सर्वं पठितुमन्वहम् ।
न शक्नोमि तदा देव किं करोमि वद प्रभो ॥ २२२ ॥

श्रीशिव उवाच ॥

यदि सर्वं न शक्नोषि प्रत्यहं पठितुं द्विज ।
तदा कृष्णेति कृष्णेति कृष्णेति प्रत्यहं वद ॥ २२३ ॥
एतेन तव विप्रर्षे सर्व सम्पद्यते सकृत् ।
किं पुनर्भगवन्नाम्नां सहस्त्रस्य प्रकर्तिनात् ॥ २२४ ॥
यन्नामकीर्तनेनैव पुमान्संसारसागरम् ।
तरत्यद्धा प्रपद्ये तं कृष्णं गोपालरूपिणम् ॥ २२५ ।।
इति सात्वततन्त्रे श्रीकृष्णसहस्रनामषष्ठः पटलः ॥

श्रीशिव उवाच ॥

श्रृण्वन्ति प्रत्यहं ये वै विष्णोनामसहस्रकम् ।
कीर्तयन्त्यथवा विप्र संस्मरन्त्यादरेण वा ॥ १ ॥
शतं वा विंशति वापि दश वा पञ्च वा द्विज ।
एकं वा कामतो भक्त्या विष्णुपादाम्बुजाश्रयाः ॥ २ ॥
तेषां फलस्य पुण्यानां नान्तं पश्यामि नारद ।
यतस्तैर्भगवानेव परानन्दो वशीकृतः ॥ ३ ॥
यतो नामैव परमं तीर्थं क्षेत्रं च पुण्यदम् ।
नामैव परमं देवं नामैव परमं तपः॥४॥
नामैव परमं दानं नामैव परमा क्रिया।
मामेव परमो धर्मो नामैवार्थः प्रकीर्तितः ॥५॥