सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
षष्ठः पटलः।


श्रीशिव उवाच ॥

भूम्यम्बुतेजसां ये वै परमाणूनपि द्विज ।
शक्यन्ते गणितुं भूयो जन्मभिर्न हरेर्गुणान् ॥ ३ ॥
तथापि मुख्य वक्ष्यामि श्रीविष्णोः परमाद्भुतम् ।
नाम्नां सहस्रं पार्वत्यै यदिहोक्तं कृपालुना ॥ ४ ॥
समाधिनिष्ठं मां दृष्ट्वा पार्वती वरवर्णिनी ।
अपृच्छत्परमं देवं भगवन्तं जगद्गुरुम् ॥ ५॥
तदा तस्यै मया प्रोक्तो मत्परो जगदीश्वरः ।
नाम्नां सहस्रं च तथा गुणकर्मानुसारतः ॥ ६ ॥
तदहं तेऽभिवक्ष्यामि महाभागवतो भवान् ।
यस्यैकस्मरणेनैव पुमान् सिद्धिमवाप्नुयात् ॥ ७॥
उद्यन्नवीनजलदाभमकुण्ठधिष्ण्यं
विद्योतितानलमनोहरपीतवासम् ।
भास्वन्मयूखमुकुटाङ्गदहारयुक्तं
काञ्चीकलापवलयाङ्गुलिभिर्विभातम् ॥ ८॥
ब्रह्मादिदेवगणवन्दितपादपद्मं
श्रीसेवितं सकलसुन्दरसन्निवेशम् ।
गोगोपवनितामुनिवृन्दजुष्टं
कृष्णं पुराणपुरुषं मनसा स्मरामि ॥ ९ ॥
ॐनमो वासुदेवाय कृष्णाय परमात्मने ।
प्रणतक्लेवासंहर्त्रे परमानन्ददायिने ॥ १० ॥
ॐश्रीकृष्णः श्रीपतिः श्रीमान श्रीधरः श्रीसुखाश्रयः ।
श्रीदाता श्रीकरः श्रीशः श्रीसेव्यः श्रीविभावनः ॥ ११ ॥
परमात्मा परं ब्रह्म परेशः परमेश्वरः ।
परानन्दः परं धाम परमानन्ददायकः ॥ १२ ॥
निरालम्बो निर्विकारो निर्लेपो निरवग्रहः ।
नित्यानन्दो नित्यमुक्तो निरीहो निस्पृहमियः ॥ १३ ॥