सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
पञ्चमः पटलः ।


नित्यनैमित्तिकैः सत्रैर्यागैर्नामाष्टकायुतैः ।
त्रैविद्येन विधानेन यान्ति मुक्तिं तदा जनाः ॥ ३२ ॥
द्वापरे तु जना हृष्टाः पुष्टाः कर्मकृतिक्षमाः ।
भोगानुसक्तमनसः मुखदुःखसमावृताः ॥ ३३ ॥
भगवत्पूजनं तेषां मोक्षसाधनमुत्तमम् ।
साङ्गोपाङ्गं केवलं च द्विविधं पूजनं स्मृतम् ॥ ३४ ॥
तदेव परमो धर्मो द्वापरस्य युगस्य वै
तस्मिन्यजन्ति पुरुषा महाराजोक्तलक्षणम् ॥ ३५ ॥
पीतवर्णं वेदमन्त्रैर्नाम्नां द्वादशभिः समम् ।
कलौ प्रजा मन्दभाग्या अलसा दुःखसंयुताः ॥ ३६॥
शिश्नोदरपराः क्षुद्रा दीना मलिनचेतसः ।
तेषामेकविधं प्रोक्तमञ्जसा मुक्तिकारणम् ।। ३७ ॥
सर्वसौख्यकरं चापि कृष्णनामानुकीर्तनम् ।
यतः कलियुगस्यादौ भगवान्पुरुषोत्तमः ॥ ३८॥
अवतीर्य यशस्तेने शुद्धं कलिमलापहम् । OTHE
ध्यानयोगक्रियाः सर्वाः स संहृत्य दयापरः ॥ ३९ ॥
स्वकीये यशसि स्थाप्य गतो चैकुण्ठमुत्तमम् ।
स तात परमो देवो देवकीदेविनन्दनः ॥ ४०॥
इन्द्रनीलसमः श्यामस्तन्त्रमन्त्रैर्य इज्यते ।
तस्मिन् कलियुगे विप्र श्रुत्वा हरियशोऽमलाः ॥ ४१ ॥
प्रायो भक्ता भविष्यन्ति तस्माच्छ्रेष्ठयुगः कलिः ।
अतः कृतादिषु प्रजाः कलौ सम्भवमात्मनः ॥ ४२ ॥
वाच्छन्ति धर्मपरमा भगवद्भक्तिकारणम् ।
ध्यानेनेष्ट्या पूजनेन यत्फलं लभ्यते जनैः ॥ ४३॥
कृतादिषु कलौ तद्वै कीर्तनादिषु लभ्यते ।
न देशकालकर्तृणां नियमः कीर्तने स्मृतः ॥ ४४ ॥
५सा