सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सात्वततन्त्रे-

भूमेरधो धरणिमण्डलमप्रमेयः
शेषाख्य आस जगतः स्थितये नितान्तम् ।
यस्मिन्कलार्पितमिदं लिखिवच्चकास्ति
नागाधिपैर्मुनिगणैः परिसेविताङ्घ्रिः ॥ ५ ॥
तस्मादधः कमठ आस विशालरूपी
ब्रह्माण्डभाण्ड परिविस्तृतदिव्यकायः ।
शेषोऽपि यत्र परिभाति सुतन्तुतुल्यो
यं चार्यमा पितृपतिः समुपासते वै ॥ ६ ॥
दृष्ट्वा दृशार्द्धवयसापि विहाय मातु-
र्देहं ध्रुवं मधुवने तपसाभितप्तम् ।
भूत्वा कृपामयवपुर्भगवान्स्वलोकं
प्रादात्स्तुवन्ति यतयो मुनयोऽपि यं वै ॥ ७॥
आलोक्य कर्दमतपो भगवान् विभूत्यै
संशुद्धदिव्यवपुषाविरभूत् सशुक्ल: ।
तस्मा अदाद्वरमजात्मजपुत्ररूप.
मानन्दविन्दुपयसा च चकार तीर्थम् ॥ ८ ॥
यज्ञे स एव रुचिना मनुपुत्रिपुत्र
आहूतिसूतिरमुरारणिवाह्विकल्पः ।
त्रैलोक्यगोपनविधौ सुरनाथ ईश
नाम्ना सुयज्ञ इति विश्रुतकीर्तिराशिः ॥ ९ ॥
सिद्धेश्वरश्च समभूत्कपिलाख्य ईशः
श्रीदेवहूतितनयो विततान तस्यै ।
योग स्वशक्तिसहितं चिदचिद्विभागं
साख्यं तथा स्वभि(१)मुखेषु जगाद शुद्धम् ॥१०॥


(१) स्वभिमुखेषु-अनुकूलेषु भक्तस्वित्यर्थः ।