सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः पटलः।


एते संक्षेपतः प्रोक्ता रुद्रस्यांशास्तमोजुषः ।
संहारिणोऽस्य जगतो घोररूपा विलक्षणाः ॥ ४२ ॥
अथ ते सम्प्रवक्ष्यामि लीलादेहान् हरेः पृथक् ।

शुद्धसत्त्वमयान् शान्तान् लोकप्रेमास्पदान् शृणु ॥५०॥
य ईश एको भगवाननन्तो ब्रह्मस्वरूपो पुरुषोऽधियज्ञः ।
पातुं पुनर्विश्वमसौ स्वकार्यं भेजे तनूस्तं प्रणमामि कृष्णम् ॥५१॥
इति श्रीसात्वततन्त्रे शिवनारदसंवादे प्रथमः पटलः ॥ १ ॥


अथ द्वितीयः पटलः ।
श्रीशिव उवाच ॥

साक्षाद्वभूव भगवान् परिपातुमीशो

वेदान् युगादिसमये हयशीर्षनामा ।

हत्वा सुरेतरवरौ मधुकैटभाख्यौ

नस्तश्चकार विश्रुतीः श्रुतिभिर्विमृग्यः ॥ १ ॥

लोकान्नित्तिपरतां प्रचिकीर्षुरादौ

भूत्वा चतुःसनतया भगवान् विमुक्त्यै ।

प्रोवाच योगममलं विशदाशयेभ्यो

भोगान् विरक्तिपरता स्वयमाचचार ॥ २ ॥

देवेषु नारदतनुर्भगवान् विशुद्धं

नैष्कर्म्ययोगमवहत्खलु पाञ्चरात्रम् ।

धर्म तथा भगवता कथितं विशेष-

शिष्येष्वसौ परमनिर्वृतिमादधानम् ॥ ३ ॥

आदौ दधार धरणीधरणाय धातुः

स्वायम्भुवोक्तिपरिपालककाल एव ।

नारायणोऽखिलगुरुगुरुकोलदेहं

तेनाहनद्दितिसुतं दशनाग्रघातैः ॥ ४ ॥