{{bold|
श्रीकृष्णाय परब्रह्मणे नमः ॥
॥अथ सात्वततन्त्रम्॥
- श्रीसूत उवाच ।
य एको बहुधा कृष्णः सृष्ट्यादौ बहुधेयते ।
तमहं शरणं यामि परमानन्दविग्रहम् ॥१॥
कैलासशिखरासीनं शिवं शिवकरं परम् ।
नारदः परिपप्रच्छ सर्वभूतहिते रतः ॥२॥
भगवन् श्रोतुमिच्छामि हरेरद्भुतकर्मणः ।
श्रीकृष्णस्याप्रमेयस्य नाना लीलातनूर्विभोः ॥ ३ ।।
यदर्थं यत्स्वरूपं च यद्यत्काले यथा रतः ।
गृह्णाति भगवान् स्वस्थस्तन्ममाख्यातुमर्हसि ॥ ४ ॥
अवतारनिमित्तं यच्चिराद्विग्रहसम्भवम् ।
प्रथमं तत्वतो ब्रूहि त्वं परापरवित्तमः ॥ ५ ॥
- श्रीशिव उवाच ।
साधु पृष्टं महाभाग त्वया भागवतोत्तम ।
यदहं नोदितः सम्यग्भगवद्वीर्यवर्णने ॥ ६ ॥
श्रीविष्णोरवताराणां विराजश्च महामते ।
कथने नैव पश्यामि पारं वर्षशतैरपि ।
तथापि सारमुद्धृत्य तन्त्ररूपेण नारद ॥ ७ ॥
वर्णयामि यथैवोक्तमीश्वरेण दयालुना।
जयपूर्वं नमस्कृत्य गोपरूपिणीश्वरम् ॥ ८ ॥
वक्ष्ये सात्वततन्त्राख्यं भगवद्भक्तिवर्द्धनम् ।
यदासीदेकमव्यक्तं नित्यं चिद्रूपमव्ययम् ॥ ९॥