म्भवात् । न हि निर्व्यापारस्तक्षा वास्याद्याधितिष्ठति ॥
ननु प्रकृतिकृतश्चेत् तस्या नित्यायाः प्रवृत्तिशलाया
अनुपरमात सदैव सर्गः स्यादिति न काश्चिन्मुच्येतेत्यत
आह–“प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः"
इति । यथौदनकाम ओदनाय पाके प्रवृत्तः ओदनसिद्धी
त्मकं विश्वमपि स्यादिति भावः । तर्हीश्वराधिष्ठिता प्रकृतिरेव परि-
णमतां तत्राह । नेश्वरणेति । तत्र इतुमाइ । न हीति । नि-
र्व्यापारे ऽधिष्ठातृत्वस्यादृष्टचत्वादिति भावः । व्यापारस्य ज-
न्यत्वे व्यापार सापेक्षत्वे आत्माश्रयायापत्तेः । निरपेक्षते ऽत्य-
न्तभावाद्यापत्तेः ।
न चेश्वरप्रयत्नरूपव्यापारस्य नित्यन्वांगीकारान्न दोष इति वाच्यम् । सर्वदा सर्गपत्तेः । न चादृष्टं नियामकम् । अदृष्टस्य कार्यत्वेन तत्सहकृतस्य कारणावासम्भवात् । तत्सहकृतप्रकृतेरे- वोपपत्त अजागलस्तनायमाने ईश्वरे मानाभावाञ्च । नचादृष्टमेच पारणमताम् । कार्यस्य कारणत्वायोगात् ।
ननु प्रकृतेर्नित्वेन प्रकृतिशीलत्वेन च सर्वदा सर्गप्रसंगः स्यात् । प्रतिपुरुषमदृष्टानामनैकत्वेन तत्सापेक्षत्वेऽपि सदैव सर्ग- प्रसंगदोषानिवृत्तेरित्यभिप्रायेणाशंकते । नन्विति । प्रकृतेर्मोक्षार्थ- प्रवृत्या सर्गस्य सर्वसाधारणत्वेऽपि यं पुरुवं मोचितवती तं प्रति सर्गाजनकत्वेन मोक्षसम्भवादित्यभिप्रायेण समाधत्ते । प्रतीति । मुले । भोजयतुमिति विहाय मोक्षार्थमित्युक्तिस्तु एकस्य मोक्षेऽपि सर्गस्य नाशो नास्ति सर्वसाधारणत्वादिति ज्ञापनाय । अत एव प्रतिपुरुषेत्युक्तम् । ननु स्वार्थं सर्वः समीहते इति न्या- येन परार्थप्रव्रुत्तिरपि स्वदुःखादिनिवृत्तिद्वारा स्वार्थमेव तथा च प्र कृतेजडत्या प्रवृत्तिर्न सम्भवतीत्याशंका लाघवेन प्रयोजनवचमा- त्रस्य प्रवृत्तिमूलत्वेन स्वार्थे प्रवृत्तिवरपरार्थेऽपि प्रवृत्तिसम्भवा-