उक्तस्य सर्गस्य कारणविप्रतिपत्तीर्निराकरोति-
इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः ।
प्रतिपुरुषविमोक्षार्थ स्वार्थ इव परार्थ आरम्भः॥ ५६॥
"इत्यैष” इति । आरभ्यते इति “आरम्भः" सर्गः म-
हदादिभूम्यन्तः प्रकृत्यैव कृतो नेश्वरेण, न ब्रह्मोपादानो,
नाप्यकारणः । अकारणत्वे ह्यत्यन्ताभावो ऽत्यन्तभावो
वा स्यात् । न ब्रह्मोपादानः, चितिशक्तेरपारणामात् । ने-
इवराधिष्ठितप्रकृतिकृतो, निर्व्यपारस्याधिष्ठातृत्वास-
भोगरूपप्रत्ययोऽपि तादृश एव । न चैव परस्परविरोधः । रूपा-
तिशयानां वृयातिशयानामेव विरोधात् । रूपाण्यष्टौ भावा धर्मा-
दयो, वृत्तयः सुखाद्याः । तदिह धर्मेण विपच्यमानेनाधर्मस्तादृशो
विरुध्यते । एवं ज्ञानवैराग्यैश्वर्यैः सुखादिभिश्च तादृशान्येव तद्वि-
परीतानि विरुध्यन्ते । सामान्यानि तु असमुदाचरदूपाणि अतिशयैः
समुदाचरद्भिः सहाविरोधाद्वर्तन्ते इत्येवं व्याख्ययम् । परिणाम-
पदेन जरादिदुःखं तापपदेन मा न भूवं किं तु भूयासमिति मर-
णान्मानसदुःख्ने संस्कारपदेन पुनर्जननादिदुःखमिति व्याख्यानं
तु भाष्यविरोधाद्धेयम् ॥ ५५ ॥
प्रकृतेर्महानित्युपसंहारस्य निष्प्रयोजनत्वाशंकां वारयन् उपो-
द्धातसंगत्याऽऽयमवतारयति । उक्तस्येत्यादिना । मुले विशे-
षभूतं पृथिवी । सर्वं वाक्यं सावधारणमिति न्यायेनाहः। प्रकृत्यै-
वेति । प्रकृत्युपादानक एवेत्यर्थः । यथा न परमाणुपादानक-
स्तथोक्तं प्राकू । अकारणत्वपक्षे दोषमाह । अत्यन्तभाव ई-
त्यादि । ब्रह्मोपादानत्वपक्षे दोषमाह । चितिशक्तेरित्यादि ।
निष्कलं निष्क्रिय शांतामित्यादिश्रुतेर्निरवयवस्य परिणामायेागात् ।
विज्ञानमानन्दं ब्रह्मेति श्रुतेः ब्रह्मणो विज्ञानात्मवे विज्ञानानन्दा
।