पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

रनिर्वचनीयरजादिकल्पनं व्यर्थम् । न च बाधकपत्ययानुपपत्ति रिति वाच्यम् । कालभेदेन भिन्नविषयकत्वात्तस्य बाधकत्वासि- द्वैः । तीव्रातपादिघटिताघटितसामग्रीभेदनैकसमयेऽपि पुरुषभेदेन रजतग्रहणाग्रहणोपपतेः ।

 एवं रक्तवस्त्रस्य निशि चन्द्रिकायां नीलतया, दीपसमवधाने तु लोहिततया प्रतीत्युत्पत्तेः । कालभेदेन वा विरोधाभावात् । न चैवमपि स्वप्नपदार्थानां जाग्रत्यनुपलम्भाद्रूपान्तरेणोपलम्भा- भावाञ्च ज्ञानातिरिक्तनाशकस्याभावाञ्च न सत्यत्वं सम्भवतीति वाच्यम् । “अथ रथान् रथयोगान्पथः सृजत एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण" इयादिश्रुत्यविरोधाय तत्रत्या- नां पदार्थानां जाग्रदवस्थादर्शनायोग्यत्वकल्पनात् । अन्यथा वि- मताः स्वापदार्थाः सम्यञ्चः स्वाप्नपदार्थत्वात् जपसंराघितदे- वतोक्त "त्वं सर्वज्ञो भविष्यसी" त्याद्युभयमतसिद्धस्वप्नपदार्थवदित्य- नुमानविरोधापत्तेरिति चेन्न । क्षीरस्य दधिपरिणामवत् राजगृहे चिरस्थितानामपि रजतभाजनानां शुक्तिभावदर्शनात्प्रत्युत रज- तभावदर्शनात् । वस्तुनः पारमार्थिकनानात्मत्वाङ्गीकारे मरीची- नामपि पिपासामिवर्तकत्वापत्तेः ।

 न च तोयमेव द्विविधं पिपासोपशमनमतदुपशमनमिति युक्त- म् । पिपासोपशमनार्थं क्रियाकारित्वव्यापकनिव्रुत्त्या तद्व्याप्यस्य तोयस्यापि निवृत्तेः । पिपासोपशमकमुदकमित्येकरूपस्य सम्भवे अनेकरूपकल्पनागौरवाञ्च ।

 न च रजतस्य भविष्यत्तामगोचरयन् वर्तमानरजतावभासिज्ञा- नं स्वसमयवर्त्तिनीं शुंक्तिं गोचरयता भविष्यत्प्रत्ययेन बोध्यते का- भेदेन विरोधाभावादिति युक्तम् । असति विनाशकारणे रजत- मिदं स्थिरं रजतत्वात् अनुभूतप्रत्यभिज्ञातरजतवदिति पृष्ठेभावा- नुमानसहकृतप्रत्यक्षेण रजतज्ञानकालमारभ्य , यावत् शुक्तिज्ञा-