निराकारतया धिया' मिति । इत्थं भूतलक्षणे चेयं तृतीया तथा
ऽर्थरूप एव विशेषः । न च शुक्तिरेव विषयः, रजतस्यानुभवमा-
क्षित्वादियाहुः ।
तन्न । रजतत्वं न पारमार्थिकत्वाभिमतरजनभिन्नव्यक्ति- वृत्ति पारमार्थिकत्वाभिमतरजनसामग्रीजन्यतावच्छेदकत्वात् यद्य- त्सामग्रीजन्यतावच्छेदकं भवति तत्तत्सामग्रीजन्यमात्रवृत्ति भवति यथोभयाभिमतघटत्वादि । अत्रे च हेतुभंग एवानुकूलतर्कः । पूर्वानुमाने च पारमार्थिकत्वाभिमतयत्किञ्चिद्रजतव्यक्तिभिन्नवृ- त्तित्वसाधने सिद्धसाधनापत्तेः । तादृशयावद्रजंतव्यक्तिभिन्न- त्तित्वसाधने च घटादिव्यक्तिदृत्तित्वेनार्थान्तरापत्तेः । बाधापत्ते- श्च । न च वाधवलादेवानिर्वचनीयरजतवृत्तित्वासाद्धिः । नेदं रजतमित्यनुभवेन तत्रापि बाधस्य सत्वात् । तथा च पारमार्थि कत्वाभिमते रजते एकम् , मिथ्याभूतं दोषजन्यतावच्छेदकं च परम् , प्रवृत्त्यन्यथानुपपत्या चोभयसाधारण चापरं रजतत्वमिति महागौ- रवापत्तिरिति भावः ।
ननु प्रसिद्धाप्रसिद्धोदासीनरजतविषयकज्ञानस्य रजतत्ववि- पयकत्वमङ्गीक्रियते न वा ? नान्त्यः, इष्टतावच्छेदकाविषयकत्वेन प्रवर्तकत्वानुपपत्तेः । जात्यतिरिक्तपदार्थस्य स्वरूपेण भानासम्भवा- ञ्च । आद्येऽपि किं सत्यरजनसाधारणं रजतत्वमुतानिर्वचनीयर- जतत्वम् , नान्यः, तस्येष्टतावच्छेदकत्वाभावेन तज्ज्ञानस्य प्रवर्त्त- कत्वानुपपत्तेः । नाद्यः । अनुपददूषितमधुसूदनमतप्रवेशाप- तेरिति चेन्न ।
शुक्तिवादिवङ्घोषवशेनानिर्वचनीयरजतत्वेऽनिर्वचनीयवस्या- भानाद्रजतत्वभानाञ्च प्रकृत्युपपत्तेः ।
ननु कालभैदेन धीरादेर्दध्यादिपरिणामवत् शुक्त्यादे रजता- दिपरिणामसंभवे वस्तुनो नानारूपत्वेन वा रजतादिव्यवहारापत्ते-