भौतिकस्थास्थ सर्गस्य चैतन्योत्कर्षनिकषतारतम्या-
भ्यामूर्ध्वाऽधोमध्यभावेन त्रैविध्यमाह-
ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः ।
मध्ये रजोविशालो, ब्रह्मादिस्तम्बपर्यन्तः ॥ ५४ ॥
"ऊर्ध्वं सत्त्वविशालः" इति । द्युप्रभृतिसत्यान्तो लोकः सत्त्वबहुलः । "तमोविशालश्च मूलतः सर्गः",
वात् । भोक्त्रधिष्ठानं विना मनुष्यादिशरीरस्य वृद्धिहासाद्यभावे
वृक्षष्वपि वृद्धिह्रासाद्यभावदर्शनात् । “अस्य यदैकां शाखां जीवो
जात्यथ सा शुष्यति" ।
"शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिता" ।
मित्यादि श्रुतिस्मृतेश्च ।
ननु वृक्षादीनां शरीरविशिष्टचेतनत्वे धर्माद्युत्पत्तिप्रसंग इति चेन्न । ब्राह्मणादिशरीरविशिष्टत्वेनैवाधिकारश्रवणात् । अत एव कमदेहः परमर्षीणाम्, भोगदेह् इंद्रादीनाम् ,उभयदेहो राजर्षीणाम् । तद्विलक्षणश्च देहो वैराग्यवतां दत्तात्रेयजडभरतादीनामित्युक्तिर- पि संगच्छते ।
ऊष्मजा युकादयः । अण्डजाः पक्षिसर्पादयः । उद्भिज्जा वृक्षा- दय इति चत्वार्येवेति न नियमः । सङ्कल्पजाः सनकादयः, मंत्रौष- धिसिद्धिजा रक्तबीजशरीरादय इति श्रवणात् । किंतु ऊष्मजम- ण्डजं जरायुजमुद्भिज्जं सांकल्पिकं सांसिद्धिकं चेति ॥ ५३ ॥
अवसरसंगत्याऽऽर्यामवतारयति । भौतिकस्यति । ननु तन्मात्रसर्गस्याविशेषे कथं सुखादितारतम्यमित्याशक्य सवादिवै- षम्यप्रयोज्य चैतन्योत्कर्षनिकर्षतारतम्यादित्यभिप्रायेणाह। चैतन्ये- ति । सत्त्वादिवैषम्ये तु धर्मादिकं निमित्तमिति बोध्यम् ।मूलतः। भूलोकादधः । तदर्शयति । पश्वादिति पश्चादेरधःपतनशीलत्वा-