वलिङ्गयोरुत्पत्तिनानुपपन्नेति सर्वमवदातम् ॥ ५२ ।।
विभक्तः प्रत्ययसर्गः । भूतादिसर्गं विभजते-
अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुपकश्चैकविधः, समासतो भौतिकः सर्गः ॥५३॥
"अष्टविकल्प” इति । व्राह्मः, प्राजापत्यः, ऐन्द्रः, पैत्रो, गान्धर्वो, याक्षो, राक्षसः, पैशाचः इत्यष्टविधौ "दैवः" सर्गः ॥
तैर्यग्योनश्च पञ्चधा भवति, पशुमृगयक्षिसरीसृ- पस्थावराः ।। "मानुषकश्चैकधिधः" इति, ब्राह्मणवाद्यवान्तरजा- तिभेदाविवक्षया, संस्थानस्य चतुर्ष्वपि वर्णेष्वविशेषात् । इति "समासतः" सङ्क्षेपतः। "भौतिकः सर्गः"। घटादय- स्त्वशरीरत्वे ऽपि स्थावर एवेति ॥ ३३ ॥
“हिंस्राहिस्रे मृदक्रूरे धर्माधर्मवृतानृते ।
तद्भाविताः प्रपद्यन्त तस्मात्तत्तस्य रोचते"॥५२॥
इति मनूक्तेः
अवसरसंगत्याऽऽर्यामवतारयति । विभक्त इति । विभक्तो
विभागेन व्याख्यातः । सरीसृपाः सर्पादयः । “पुरश्चक्रे द्विपदः'इति
श्रुतिमनुसृत्याऽऽह । भानुषकश्चेति । मानुषसर्गस्य ब्राह्मणत्वा-
दिना चतुर्विधत्वात्कथमेकविधत्वामित्यत आह । ब्राह्मणत्वेति ् ।
भौतिको भूतानां व्यट्रिप्राणिनां विराजः सकाशात्सर्ग इत्यर्थः ।
ननु स्थावराणां शरीरत्वांगीकारे घटादीनां स्थावरत्वं न स्थादित्यत आह । घटादय इति । तथा च स्थावरत्वं न शरी- रत्वव्याप्यमित्यर्थः ।
न च बाह्यज्ञानं यत्रास्ति तदेव शरीरमिति नियमाद्वृक्षादीनां बाह्यज्ञानाभावान्न शरीरत्वमिति वाच्यम् । तादृशनियमे मानाभा-