तस्परदोषोद्भावनेन नः सिद्धान्तमात्रव्याख्यानप्रवृत्ता-
नाामति ॥
सिद्धितुष्टिविपर्ययेणाशक्तिर्बुद्धिवधस्सप्तदशधा द्रष्ट- व्यः ।
अत्र बुद्धिप्रत्ययसर्गे सिद्विरुपादेयेति प्रसिद्वमेव । तन्निवारणहेतुवस्तु विपर्ययाशक्तितुष्टयोहेया इत्याह- "सिद्धेः पूर्वो ऽङ्कशस्त्रिविधः” इति । "पूर्व" इति विपर्य- याशाक्तितुष्टीः परामृशति । ताः सिद्धिकरिणीनामङ्कु- शो, निवारकत्वात् । अतः सिद्धिपरिपन्थित्वात् विपर्य- याशक्तितुष्टयो हेया इत्यर्थः ॥ ५१ ॥
स्यादेतत्-पुरुषार्थप्रयुक्त सृष्टिः स च पुरुषार्थः प्रत्ययसर्गाद्वा तन्मात्रसर्गाद्वा सिद्ध्यतीति कृतमुभयस-: र्गणेत्यत आह--
न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः ।
लिङ्गाख्यो भावाख्यस्तस्माद् द्विविधः प्रवर्तते सर्गः॥५२॥
“न विना” इति । “लिङ्गम्” इति तन्मात्रसर्गसुप-
अयमाशयः । ऊहस्तर्कपर्यायो मननन्तु प्रश्रुतस्योहने शक्तिः शब्दाध्ययनयोः सांकर्यपात्तिः । अध्यनपदस्य विधिवद्वेदायत्ती- करणे शक्तिर्न तु ज्ञाने । मुहृदुपदेशं विना ज्ञानोत्पत्त्यसम्भवैन शब्देन पौनरुक्यापत्तिः । वैराग्यवतां धनादिलाभे सन्तोषासम्भ- वादुपदेशानुपपत्तिरिति दिक् ।
हेग्रोपादेयमाई । अत्रेति । सिद्धिविरोधित्वाद्विपर्ययादेर्हेय- त्वमुपसंहरति । अत इति ॥ ११ ॥
उपोद्धातसंगत्याऽऽर्यामवतारयति । स्यादेतदिति । प्रत्य- यसर्गात् । एष प्रत्ययसर्ग इत्युक्तात् । लिंगपदस्याभिधेयमाह । तन्मात्रसर्गमिति ।
५७