पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

खत्रयस्थ हानोपायः' इति ( योगसूत्र २ । २६ ) । 'अ- विप्लव' शुद्धिः, सा च सवासनसंशयविपर्यासानां प- रिहारेण विवेकसाक्षात्कारस्य स्वच्छप्रवाहे ऽवस्थापन- म् । सा च न विना ऽऽदरनैरन्तर्यदीर्घकालसविताभ्या- सपारिपाकाद्भवतीति दानेन (विवेकख्यात्याः कार्येण ) सो ऽपि संगृहीतः । सेयम्पञ्चमी सिद्धिस्सदामुदि-. तमुच्यते ॥

 तिस्रश्च मुख्याः सिद्धयः प्रमोदमुदितमोदमाना, इ- त्यष्टौ सिद्धयः ॥

 अन्ये व्याचक्षते-विनोपदेशादिना प्राग्भवीयाभ्या: सवशात्तत्त्स्वस्य स्वयमूहनं यत् सा सिद्धिरूहः । यस्य सांख्यशास्त्रपाठमन्यदीयमाकर्ण्य तत्त्वज्ञानमुत्पद्यते सा सिद्धिः शब्दः, शब्दपाठोदनन्तरम्भावात् । अस्य शि- व्याचार्यसम्बन्धेन सांख्यशास्त्रं ग्रन्थतो ऽर्थतश्चाधीत्य ज्ञानमुत्पद्यते सा ऽध्ययनहेतुका सिद्धरध्ययनम् । सुहृ. प्राप्तिरिति । यस्याधिगततत्त्वं सुहृदं प्राप्य ज्ञानमुत्पद्यते सा ज्ञानलक्षणा सिद्धिस्तस्ये सुहृत्प्राप्तिः । दानश्च सि- द्धिहेतुः, धनादिदानेनाराधितो ज्ञानी ज्ञानम्प्रयच्छति । अस्य च युक्तायुक्तत्वे सूरिभिरेवावगन्तव्ये इति कृ-




गृह्यते । सोऽपि आदरादिपाकान्तोऽपि सूत्रोक्तो गृहीतः । साधन- सिद्धारुत्वा साध्यसिद्धीर्मुख्या आह । तिस्रश्चेति । तारसुतारता- रतरप्रमोदमुदितमोदमानरम्यकसदाभुदिताख्या इत्याकारपाठ- त्यागस्तु अध्ययनादितृतीयं विना तत्त्वज्ञानानुत्पत्तेः सुहृत्प्राप्तिद्वयं विना च तत्वज्ञानशुद्ध्यनुपपत्तेराध्यात्मिकादिदुःखत्रयस्य विना- भावादपुमर्थता शास्त्रस्याऽऽपद्येत तन्निरासायेति बोध्यम् ।

 अन्येषां व्याख्यामाइ । अन्ये त्विात । सूरिभिरिति । -