एवं शब्दादिभोगाभ्यासात् प्रवर्धन्ते कामाः, ते च
विषयाप्राप्तौ कामिनं दुःखाकुर्वन्तीति भोगदोषं भाव
यतो विषयोपरमे या तुष्टिः सा चतुर्थी अनुत्तमा-
म्भ’ उच्यते ।
एवन्नानुपहत्य भूतानि विषयोपभोगः सम्भवतीति हिंसादोषदर्शनाद्विषयोपरमे या तुष्टिः ‘सा पञ्चमी उत्त- माम्भ' उच्यते ।।
एवमाध्यात्मिकीभिश्चतसृभिः बाह्याभिश्च पञ्चाभिः
- नव तुष्टयो ऽभिमताः ।। ५० ॥
गौणमुख्यभेदैः सिडीराह-
ऊहः शब्दो ऽध्ययनं दुःखाविधातास्त्रयः सुहृत्प्राप्तिः ।
दानं च सिद्धयोऽष्टौ, सिद्धेः पूर्वो ऽङ्कुशस्त्रिविधः॥५१॥
ऊह” इति । विहन्यमानस्य दुःखस्य त्रित्वात्तद्वि-
घातास्त्रय इतीमा मुख्यास्तिस्रः सिद्धयः, तदुपयतया-
त्वितरा गौण्यः पञ्च सिद्धयः, ता आपि हेतुहेतुमत्तया
व्यवस्थिताः । तत्राऽऽद्या ऽध्ययनलक्षणा सिद्धिर्तुरेव ।
मुख्यास्तु सिद्धयो हेतुमत्य एव । मध्यमास्तु हतुहतुमत्यः॥
विधिवद् गुरुमुखादध्यात्मविद्यानामक्षरस्वरूपग्रह- णमध्ययनम् प्रथम सिद्धिस्तारमुच्यते ॥
त्याह । वर्द्धत इति । दुःखाकुर्वंति । दुःखं प्रयच्छंतीति ।
“न हिंस्यात्सर्वा भूतानि अन्यत्र तीर्थेभ्य” इति श्रुतिमा- श्रित्य पंचमीमाह । एवं नानुपहत्येति ॥ ५० ॥
पूर्वोक्तसंगत्याऽऽयामवतारयति । गौणमुख्थेति । [सहृत्प्रा- प्ति श्चतुर्थीयम् ] अध्ययनं विना शाब्दज्ञानाद्यभावेन तासां हेतुमत्वं प्रकटयितुमर्थात्पाठक्रममुल्लंघ्यार्यीं व्याकरोति । गुरुमुखादिति ।