ग्यार्ण्यपि पञ्च, तत्पञ्चत्वात् तुष्टयः पञ्चेति । उपरम्यते ऽनेनेत्युपरमो वैराग्यम्, विषयादुपरमो विषयोपरमः । विषया भाग्याः शब्दादयः पञ्च, उपरमा अपि पञ्च ॥
तथा हि-अर्जनरक्षणक्षयभोगाहिंसादोषदशर्नहेतुज- न्मानः पञ्चोपरमा भवन्ति । तथा हि-संवादयो धनार्जं- नोपायाः, ते च सेवकादीन् दुःखाकुर्वन्ति,
“दृष्यद्दुरीश्वरद्वाःस्थदण्डिचण्डाधेचन्द्रजाम् ।
वेदनां भावयन् प्राज्ञः कः सेवास्वनुषज्ज्यते ॥
एवमन्ये ऽप्यर्जनोपायाः दुःखा इति विषयोपरमे या
तुष्टिः सैषा ‘पारम्' उच्यते ॥
तथा ऽर्जितन्धनं राजैकागरिकाग्निजलौघादिभ्यो विनङ्क्ष्यतीति तद्रक्षणे महद् दुःखामिति भावयतो विष- यापरमे या तुष्टिः सा द्वितीया 'सुपारम’ उच्यते ॥
तथा महता ऽऽयासेनार्जितन्धनं भुज्यमानं क्षीयते इति तत्प्रक्षयम्भावयतो विषयोपरमे या तुष्टिः सा तुः- तीया "पारापारमु", उच्यते ॥
को दोष इत्यपेक्षायामाह। तथा हीति । दर्पेण दुरीश्वरस्य सेवानु- रूपं दुःखमजानतो ये द्वाःस्थाः द्वारस्थिताश्च ते दंडिनश्च तेषां अ- र्धचन्द्रैर्हस्तस्यांगुष्ठतर्जनीप्रमाणसंस्थानविशेषैथ जातां वेदनां दुःखै- कनिदानमिति । पारमिति परिभाषा ।
अर्जनदुःखमनुभवारूढं सम्पाद्य रक्षणं दुःखं द्वितीयं त- था करोति । तथेति । एकागारिकाश्चौराः । सुपारमिति परि- भाषा । तृतीयामाह । तथेति । भोगे दोष चतुर्थमाई । एवं शब्दादति ।
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्मेव भूय एवाभिवर्द्धते"॥
इति मनुवचनमाश्रि-