सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'३५१
अहंकारकार्यनिरूपणम् ।

 ननु यदि सर्वतमोभ्यामेव सर्वं कार्यं जन्यते तदा कृतमकिञ्चित्करण रजसेत्यत आह–“तैजसादुभयम्" इति । तैजसाद्राजसादुभयं गणद्रयं भवति । यद्यपि र जसो न कार्यान्तरमस्ति तथा ऽपि सत्त्वतमसी स्वयम- क्रिये समर्थे अपि न स्वस्वकार्यं कुरुतः; रजस्तु चलतया ते यदा चालयति तदा स्वकार्यं कुरुत इति । तदुभय- स्मिन्नपि कार्ये सत्त्वतमसो क्रियोत्पादनद्वारेणास्ति रज- सः कारणत्यमिति न व्यर्थं रज इति ।। २५ ।।

 सात्विकमेकादशकमाख्यातुं बाह्येन्द्रियशकं तावदाह-


 बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि ।
 वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः ॥ २६ ॥

 

 "बुद्धीन्द्रियाणि" इति । सात्विकाहङ्कारोपादानत्व-




कर्मेन्द्रियमिति व्याख्यातं तन्मतं दूषयितुमाहोभयं गणद्वयामिति । तन्मात्रैकादशकमित्यर्थः ।

 ननु तहिँ स्वतन्त्रकार्याभावात्कृतं रजसेत्याशङ्कते-यद्यपी- ति । रजसः राजसाहङ्कारस्य । कार्यान्तरं उभयगणातिरिक्तं रजः प्रधानात्मकं उपष्टम्भकं चलं च रज इत्युक्ताभिप्रायेण स- माधत्ते-तथापीति । कार्यान्तराभावेऽपीत्यर्थः । यथा नैयायिकमते अस्मदादिशरीरं पार्थिवमप्याकाशादिभिरुपष्टभ्यते स्वर्णं तैजसमपि पृथिव्योपष्टभ्यते तथा राजसाहङ्कारेणोष्टभ्येते सत्वरजसी इत्यर्थः ।


 अन्वयव्यतिरेकाभ्यां सिद्धमर्थमुपसंहरति सत्वतमसोरिति । रज इति रजःप्रधानोऽहङ्कार इत्यर्थः। वैकृतभूतादितैजसत्वकथनं तु लघुकार्यजनकमहाकार्यजनकसृष्टिसमर्थत्वाभिप्रायकं बोध्यम् ॥२५॥ उपोद्धातसङ्गतिसूचनाय पूर्वोक्तमनुवदन्नार्यामवतारयति । सा-