स्याज्ञानिनस्तत्सुखं सम्भवति । 'यत्र नान्यत्पश्यति नान्यच्छृणो- तीति श्रुतेः । सचानन्द इव वितृष्णप्रयक्षोऽवगतस्तथाच वे- दव्यासः ।
यञ्च कामसुख लोके यञ्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥
इति ।
नच वेदान्तमने ब्रह्मणः सुस्वरूपत्वात्स एको ब्रह्मण आनन्द इति भेदपरा षष्ठी विरुद्ध्यते साङ्ख्यमते ब्रह्मणः सुखसम्वन्धाभावाञ्चे- ति वाच्यम् ।‘ब्रह्मविदाप्नोति परं'। 'सत्यं ज्ञान मनन्तं ब्रह्म’ "यो वेद- निहित गुहाया'मित्युपक्रमे गुहानिहितजीवभिन्नस्य वेदनकर्मत्वेन निर्दिष्टस्य यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न विभति कदाचन’इत्युपसंहारमन्त्रे ’तत्वमसि अहं ब्रह्मात्म्यानन्द ब्रह्मेत्यादि वदत्रापि आनन्दं ब्रह्म विद्वानिति सा- मानाधिकरण्येन निर्द्देश उचित एव, तथापि आनन्दं ब्रह्म विद्वानित्युक्ते तत्पदार्थानन्दपरमेवानन्दपदमिति भ्रमः स्यात्तन्माभूदतो भेदपर- षष्ठ्यानन्दपदं जीवपरमिति बोधनाय भेदएरषष्ठ्युपपत्तेः ।
अतएव व्रह्मणा गुरुणापि तद्वैयधिकरण्यानुरोधेन प्रजापते- रानन्दो ब्रह्मण आनन्द इयादिविवरणोपपत्तरित्याहुः ।।
सत्वतमोभ्यां सात्विकराजसाहाराभ्याम् । सर्वे कार्यमितोऽ- ग्रेऽहङ्कारजन्यमिति पूरणीयम् । रजसा राजसाहङ्कारेण एतेन रजसः स्वतन्त्रकार्य्याभावे ‘अन्योन्याभिभवाश्रय जननमिथुनवृत्तयश्चगुणा’ इत्यत्र सत्वं रजस्तमसी अभिभूय शान्तामात्मनो वृत्तिं लभते एवं रजः सत्वतमसी अभिभूय घोरामिति पूर्वोक्तविरोधः ।
सत्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
इत्यादि भगवद्वचनविरोधश्चेति परास्तं । रजः पदेने राज- साहङ्कारस्य विवक्षितत्वान्न तु रजोगुणस्येति । भाष्ये उभयं ज्ञान-