पाचनापारम्भः प्रयत्न यतमानसज्ञा । परिपाचने चानु-
ष्ठीयमाने केचित्कषायाः पक्काः, पक्ष्यन्ते च केचित् , त-
त्रैवं पूर्वापरीभावे सति पक्ष्यमाणेभ्यः कषायेभ्यः पक्कानां
व्यतिरेकेणावधारणं व्यतिरेकसंज्ञा । इन्द्रियप्रवृत्त्यस-
मर्थतया पक्कानामौत्सुक्यमात्रेण मनसि व्यवस्थापनमे-
केन्द्रियसंज्ञा । औत्सुक्यमाचस्यापि निवृत्तिरुपस्थिते-
वापि दृष्टानुश्रविकविषयेषु, या संज्ञाचयात् पराचीना ।
इत्यर्थः । तत्परिपाचनाय रागादिकषायस्य प्रत्यनुकूलविच्छिन्नो दारावस्थातिरिक्तसुषुप्तावस्थासम्पादनाय । आरम्भः दीर्घकाल- नैरन्तर्य्याभ्यस्तातिरिक्त प्रयत्न आरम्भाख्यो यतमानसंज्ञेत्यर्थः । रागादिकषायपाचनार्थं निवृत्तिधमारम्भो यतमानमित्यन्ये । अ- पकानां परिपाकफलकं द्वितीयं व्याचष्टे-पारिपाचनामति ।
ननु रागादिपाकहेतुप्रयत्नस्यैकरूपत्वात्कथं पक्वापक्वविभागः । कथं वाऽपक्वानां परिपाकाय पक्वेभ्यो व्यतिरेकैणावधारणमुचितं विहाय पक्वानां व्यतिरेकेणोक्तिरिति चेन्न । रागादेर्विषयमृदुमध्य- त्वादिभेदेन नानात्वात् । उत्साहार्थं तथाभिधानाञ्च् । इन्द्रियप्रवृत्य समर्थतया इन्द्रियप्रवर्त्तनासमर्थतया । प्रयत्नं विनापि विच्छिन्नानां कादाचित्केन्द्रिय प्रवृत्त्यसमर्थतास्त्येवेत्याशङ्क्यामर्थतां पुनर्व्याचष्टे पक्वानामौत्सुकमात्रेणेति । पक्वसर्वकषायज्ञानेन चित्तोत्सुक- तेत्यर्थः । मनसीति कथनं तु वास्तवाश्रयप्रदर्शनाय । नतु यत्तमा नानां मनआश्रयव्यावर्तनायेति ।
चतुर्थीमाहौत्सुक्येति । सुषुप्त्यादौ पामराणामप्यौत्सुक्यनि- वृत्तिसम्भवात्तां व्याचष्टे उपस्थितेष्वपीत्यादि । प्रत्यक्षादने- ति शेषः । दृष्टो मानुषशरीरोचित राज्यादिभोगः । अनुश्रवो वेद- स्ततोऽधिगतः । अनुश्रविक इन्द्रादिशरीरोचितः । यां इत्यनन्तर- मुपेक्षाबुद्धिरिति शेषः । संज्ञत्रयात्परचीना चतुर्थीत्यर्थः । एत- ।