सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३३
बुद्धिधर्मनिरूपणम् ।

चशीकारसंज्ञा-इति चतस्रः संज्ञाः । रागादयः कषा- याश्चित्तवर्तिनः, तैरिन्द्रियाणि यथास्वं विषयेषु प्रवर्त्य- न्ते । तन्माऽत्र प्रचर्तिषत विषयेष्विन्द्रियाणीति तत्परि-




 अनेकजन्मपुण्यपरिपाकवशीकृतन्द्रियग्रामस्य कस्यचित्पुरुष- धौरेयस्य विषयेषु जिज्ञासासम्पादनपूर्वकमिन्द्रियैरत्युत्कृष्टे निर्धा- रणात्मकज्ञानसम्भवेनातिजघन्ये रागासम्भवेऽपि तदितरेषामति- जघन्येऽपि रागसम्भवेन तन्निसाय प्रयत्नस्यावश्यकत्वान्मैवमि- त्याह--रागादय इति । आदिनेच्छादिः । भल्लातकषायवदति यत्नं विना दुरीकर्तुमशक्यत्वादेतेऽपि कषाया इन्याह-कषाया इति । रागादेरात्मधर्मगुणवत्वेन चैतन्यवदनिवृत्तिमाशङ्क्याह- चित्तेति । तेषामन्द्रियद्वारानर्थहेतुत्वमाह-तैरिति । व्युत्क्रमेणे- न्द्रियाणां प्रवृत्तिवारणाय-यथास्वमिति । यथा रूपेषु चक्षुष एव नतु घ्राणादेरित्येवमिन्द्रियान्तरेष्वपि बोध्यम् ।।

 नच रागादिं विनापीन्द्रियाणामकस्मादुपनतविपश्चीस्वरवायूप- नीतगन्धादिषु प्रवृत्या व्यभिचारेण कथं रागादेरिन्द्रियप्रवृत्तिहेतु- त्वमिति वाच्यम् । इष्टानिष्टप्राप्तिपरिहारानुकूलप्रवृत्तेर्विवक्षित- त्वात् । रागाद्यप्रयोज्यप्रवृत्तिनिरोधस्य योग विना कर्तुमशक्य- त्वात् । जीवनलोपेन सत्वपुरुषान्यताख्यातानुपयोगाञ्च ।



 इन्द्रियस्येन्द्रियस्यार्थे रागद्वेष व्यवस्थितौ ।
 तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थनौ ॥ १ ॥
 इन्द्रियाणीन्द्रियार्थेषु वर्तन्ते इति धारयन् ॥


 इत्यादिना भगवतापि रागादिप्रयोज्यप्रवृत्तेरेव निषेधात् ।

 तन्मात्रेति। अत्र तत्पदं लुप्तपञ्चम्यन्तम् । प्रवर्तिषत इत्यत्र भूतकालो न विवक्षितः । एवं सति रागादिकषायादिन्द्रियाणि अत्र विषयेषु मा प्रवर्चिषत मा प्रवर्त्तन्तामियर्थः। इतीति । इति शब्दो हेतुपरः । यतो रागादय इन्द्रियप्रवर्त्तनद्वारानर्थहेतुरतः