चत्क्रनारपलनालेन तायमाकर्षयेश्वर ॥
एवं वायुगृहीतव्यः पूरकस्येति लक्षणम् ।
नाच्छ्वसनैव निःश्वसेन्नैव गात्राणि चालयेत् ।
एवं तावान्नियुञ्जात कुम्भकस्येति लक्षणम् ॥
इत्यत्र वायुं शरीरान्तर्गतं प्राणवायुमुत्सार्य वहिर्निस्सार्या-
काशं शरीरं शून्यं प्राणवायुरहितं कृत्वा ।
ननु शुन्यशब्दस्य बौद्धमते प्रतियोग्याद्यनिरूप्याभावपरत्वा- त्कथमुक्तार्थलाभ इत्याशङ्कयाह-निरात्मकमिति । निर्गतः आत्मा- त्मत्वाभिमानप्रयोजकः प्राणवायुर्यस्माच्छरीरात्तादृशं शरीरं कृत्वे- त्यर्थः । वायोबहिर्निस्सरणस्वभावत्वादविशेषापत्तिरित्याशङ्क्याह- शून्यभावेनैव नियमेत् । तदिदं रेचकं भवति ।
कुम्भको हि द्विधा । आन्तरो बाह्यश्च । तदुभयं विशिष्टं मुनिराह-
अपनिऽस्तङ्गते प्राणो यावन्नाभ्युदितो हृदि ।
तावत्सा कुम्भकावस्था योगिभिर्यानुभूयते ।
बहिरस्तङ्गते प्राणे यावन्नापाने उद्गतः ॥
तावत्पूर्णा समावस्था बहिस्थं कुम्भकं विदुः ।
इति । तत्रोच्छास अन्तरकुम्भकविरोधी, निःश्वासो ह्यकु-
म्भकविरोधी गात्रचालनमुभयविरोधि तस्मिन् सति निःश्वासोच्छ्वा-
सयोरन्यतरस्यावश्यम्भावित्वात् । तथाच कुम्भके गत्यभावेऽपि
रेचकपूरकयोरुच्छ्वासनिःश्वासगतिसत्वादव्याप्तिरितिचेत् ।।
न । स्वभावसिद्धायाः समप्राणगतेविच्छेदस्य विवक्षितत्वात् । ”बाह्याभ्यन्तरस्तम्भवृत्तिर्दशकालसङ्ख्याभिः : परिदृष्टो दीर्घसूक्ष्म" इतिसूत्रे तु दृत्तिशब्दः प्रत्येक सम्बध्यते प्राणायाम इत्यनुवर्तते । प्रश्वासपूर्वकः स्वाभाविकगत्यभावो बाह्यवृत्तिः रेचकः । श्वासपूर्व- कः स्वाभाविकगत्यभावआन्तरः । वृत्तिपूर्वकसङ्कुचितवृत्तिपूर्वको- गल्यभावस्तम्भवृत्तिः कुम्भकः । एतेन कुम्भके वृत्तिपदं व्यर्थमिति