सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

कत्वं यथार्थवाक्यार्थप्रतीतिप्रयोजनकत्वं । सत्यत्वमित्यपि केचित् ।

 वाक्यसत्यत्वस्य मनोऽधीनत्वादुक्त सत्यत्वप्रयोजक यथादृष्टा नुमितादिरूपेण बुबोधयिषादिमत्त्वमेव मनःसत्यत्वम् । अतएव सत्यं यथार्थे वाङ्मनसे इत्यत्रभाष्ये यथादृष्टं यथानुमितं यथाश्रुतं तथा वाङ्मनश्चीतवाङ्मनसयोस्तुल्यसत्यत्वनिर्देशः ।

 अस्तेयमवैधीयस्वीकाराभावः । सच वाक्कायिकव्यापारयो र्मानसव्यापारपूर्वकत्वेन वाचनिकप्राधान्यादस्पृहारूपमनोव्यापार एव मुख्य इति ध्येयम् । ब्रह्मचर्यमुपस्थसंयमः । विषयाणामर्जनर- क्षणक्षयरागाहिंसादिदोषदर्शनादस्वीकरणमपरिग्रह इत्येते यमाः ।

 शौचसन्तोषतः स्वाधावेश्वरप्रणिधाना नियमाः । तत्र शौचं द्विविधं बाह्यमाभ्यन्तरं चाद्यं मृजलादिजनितं गोमुत्रादिमेध्याभ्य- वहरणादिजनितं च । द्वितीयं पदमानासूयादि चित्तमलोपनयः । सन्तोषः स्वपाश्र्वेऽविद्यमानत्वे सति प्राणत्रणमाहेतोरधिकस्या- नुपादित्सा । तपो मौनादयः । स्वाध्यायो मोक्षशास्त्राध्ययनम् । ईश्वरप्रणिधानं तस्मिन् सर्वकमर्पिणमिति नियमाः । आसनं देह- स्य स्थापनविशेषः । तद्भेदाः पद्मादयः शास्त्र प्रसिद्धाः ।

 नच 'स्थिरमुखमासन'मिति सूत्रविरोधः । देहचलनराहित्याव- यवव्यथानुत्पत्तिरूपस्थिरत्वादिप्रयोजकत्वकथनेन प्रयत्नशैथिल्या- द्युपायसिद्धस्य फलोपधानरूपासनस्य सूत्रे विवक्षितत्वात् एते- नासनस्य साधनदशायां पीडाकरत्वात्सुखमासनमित्यनुपपन्न- मितिपरास्तं सिद्धासनस्यैव विवक्षितत्वात् । बाह्यवायोराचमनरू पश्वासस्य कौष्ठ्यवायोर्निः सारणरूपप्रश्वासस्यातिविच्छेदः प्राणा- यामः । ननु


 प्राणायामास्त्रयः प्रोक्ता रेचकपूरककुम्भकाः ।
 उत्क्षिप्य वायुमाकाशं शून्यं कृत्वा निरात्मकम् ।।
 शून्यभावेन प्रयुञ्जीत रेचकस्येति लक्षणम् ।