पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१७
बुद्धिधर्मनिरूपणम् ।

सङ्गच्छते ।

 दानं मूल्यग्रहणं विना स्वस्वत्वध्वंसपरस्वत्वजनकत्याग इति सम्पदाय इति दिनकरभट्टादयः । तन सम्भवति ! मूल्य- स्य तत्तद्व्यक्तिविश्रान्तत्वेन सामान्यलक्षणासम्भवात् । नच मूल्यस्य तत्तद्व्याक्तिविश्रान्तत्वेऽपि तत्तद्ग्रहणाभावेन विशिष्टलक्षण- करणे न दोष इति वाच्यं । तदभावकूटस्य युगसहस्रेणापिज्ञाना- ऽसम्भवात् । स्वत्वपरत्वगर्भत्वेनाननुगमञ्च । राज्ञो दण्डं ददाति, चैत्रस्य भोक्तुं स्थालीं ददातीत्यादावतिव्याप्तेः परस्वत्वोत्पत्यभावे- नोत्सर्गादावव्याप्तेश्च । नच तत्र दानत्वमेव नास्तीति वाच्यम् । 'दूरस्थाभ्यामपि द्वाभ्या’ मित्युपक्रम्य ‘मनसा पात्रमुद्दिश्य भूमौ तोयं विनिक्षिपेत् । विद्यते सागरस्यान्तो दानस्यान्तो न विद्यते' इति विरोधापत्तेः । केवलत्यागस्य परस्वत्वजनकत्वे मानाभावाञ्च ।।

 तस्मात्यागविशेष एवं दानं । त्यागावशेषचेदमेतस्य नममे- त्याकारिका निरुपाधिरिच्छा, तत्र जातिविशेष ददातेः प्रकृत्तिनि- मित्तम् । नच सम्प्रदानस्य कारकत्वं न स्यात्तादृशत्यागे सम्प्रदा- नस्याहेतुत्वादिति वाच्यम् । उक्तषडन्यतमत्वरूपस्य कारकत्वस्य तत्राप्यक्षतेरित्यपरे ।

 तदपि न पेशलं । परकीयद्रव्ये इदमतस्य नमर्मतीच्छायापति- व्याप्तेः । स्वीयस्यापि, स्त्वंकार्याक्षमस्यातिजीर्णस्य वस्त्रगवादेः सिं- हश्वापदादेः पर्युषितोच्छिष्टान्नदिरिदं न ममेतच्छायां,


 यद्दद्दाति विशिष्टेभ्यो यञ्चाश्नाति दिने दिने ।
 तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षास ॥


इति ।

 व्यासवचनं श्रुत्वाऽतिजीर्णस्य महाव्याधिग्रस्तस्य जायपा- नायामिदं कस्यचिन्नममेतीच्छायां चातिव्याप्तेः ।।

 नचेदं ज्ञानमेव नेच्छेति वाच्यं । तव मतेऽपि तुल्यत्वात् । इ- च्छायाँ मूल्यग्रहणाभावातिरिक्तस्य निरुपधित्वस्यानिवेचनाच्च मू-