पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


त्यागजन्यस्वत्वप्रकारकेच्छाविषयत्वरूपोद्देश्यत्वं देवतात्वमित्युक्ते ऽपि दानादिरूपद्रव्यत्यागजन्यस्वत्व प्रकारकेच्छाविषयत्वरूपोद्देश्य- त्वस्य ब्राह्मणेऽपि सत्वेन तत्रातिव्याप्तेः । अतो मन्त्रकरणकहवि- स्त्यागभागित्वेनोद्देश्यत्वमिति मणिकृन्महामहोपाध्यायनैयायिक- चक्रचूडामणिश्रीमद्गङ्गेश्वराचायः । ।

 मन्त्रकरणकत्यागजन्यद्रव्यनिष्ठस्वत्वभागित्वेनद्देश्यत्वं देव- तात्वमिति वर्चुलार्थः । ब्राह्मणेऽतिव्यप्तिवारणाय मन्त्रकरणकति त्यागजन्यस्वर्गनिष्ठस्वत्वनिरूपकत्वरूपोद्देश्यत्वस्य त्यागकर्तरि स- त्वात्तत्रातिव्याप्तिवारणाय द्रव्यनिष्ठेति । तदपरे ने क्षमन्ते । त्यागे मन्त्रस्य करणत्वे मानाभावात् । प्रत्यक्षविरोधाच्च । मुक्त- पित्रादेः श्राद्धे हविर्भागित्वाभावेन तन्नाव्याप्तेश्च । विसंवादीच्छा-. मादाय चरमदोषवारणेऽतिप्रसङ्गात् । ।

 यत्तु मन्त्रकरणकेयादेः मन्त्रोच्चारणपूर्वकविधि्बोधितद्रव्य- सम्बन्धित्वप्रकारकत्यागाविषयमर्थः । दानस्यापि तुभ्यं सम्प्रदर्द इत्यादिवाक्योञ्चारणपूर्वकत्वेन शास्रबोधितत्वान्मन्त्रनिवेशः । दुव्यस्यापि देवतासम्बन्धितया त्यागविषयत्वात्तत्रातिव्याप्तिवार- णाय द्रव्येति । प्रतिग्रहीतुः कोऽदा’ दित्यादिमन्त्रोच्चारणपूर्वकवि- धिबोधितव्यसम्बन्धित्वप्रकारकप्रतिग्रहविषयत्वात्तत्रातिव्याप्तिवा- रणाय त्यागनिवेश इति ।

 तन्न । शूद्रकृतश्राद्धे प्रेतश्राद्धे च पित्रादेर्देवतात्वाभावप्रसङ्गात् । नच तज्जातीयद्रव्यसम्बन्धस्य विवक्षितत्वान्न दोष इति वाच्यम् । गौरवात् । तज्जातीयद्रव्यसम्बन्धस्यान्यत्रापि सत्वेनातिप्रसङ्काच्च । नच तत्र देवतात्वानभ्युपगम इति वाच्यं । स्वपितृणां भिन्नत्वेऽपि विश्वे- देवादीनां सर्वत्रैक्यात् । किन्तु लाघवाद् द्रव्यप्रतिग्रहरहितत्वे सति द्रव्योद्देश्यतया चोदितत्वं देवतात्वमियेव वाच्यम् । अतएवोपदेश- कर्मप्रतिग्रही* परञ्चेादनापलीक्षतं तद्देवतेत्युच्यते इति तन्त्ररत्नमपि