पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३११
बुद्धिधर्मनिरूपणम् ।

त्वं परिचायकमुपलक्षणं वा विजातीयेच्छैव त्यागो याग इति । परि- चायकत्वं च प्रत्याय्यव्यावृत्त्यधिकरणतानवच्छेदकत्वे सति व्यावर्त्त- कत्वं । नतु क्रियाऽनन्वयित्वे सति ब्यावर्तकत्वं क्रियाहीने सुभ- गोऽयं दण्डी, महाबाहुः, नीलोत्पलमित्यादौ दण्डादावतिव्याप्तेः । तञ्च यथा जटाभिस्तापस इत्यादौ जटादेरतापसेऽपि सत्वादतापस- व्यायवृत्यधिकरणतानवच्छेकत्वाज्जाटादेः परिचायकत्वं । तथा या- गे देवता निवेदनादावपि देवतोद्देश्यकत्वसत्त्वेनायागव्यायवृत्त्यं- धिकरणतानवच्छेदकत्वाद्देवतोद्देश्यकत्वस्य परिचायकत्वम् ।

 देवतोदेश्यकत्वं च देवतास्वत्ववद्विशेष्यकत्वामिति नैयायिकाः । यूपाहवनीयादिवद्यागस्याप्यलौकिकत्वेन वेदेनैव तदवगमो वा- च्यस्तदुक्तं तन्त्ररत्ने-“वेदवाक्यपौर्वापर्यमात्रात्कल्पसूत्रकारपरिभा- पणाद्वा वैदिकपदार्थज्ञानं भवती’ ति । सच तव मते न सम्भवति तादृक् वेदानुपलम्भात् । विजातीयत्वनिरुक्तेश्च ।

 यदि वेदबाधितदेवतास्वत्ववद्विशेष्यकत्वमेव विजातीयत्वं त- स्य च प्रातर्नो यक्ष्यते इत्सादावनन्वयभिया यज्यनन्तर्भावस्तर्हि ‘सोऽग्निमीक्षमाणो व्रतमुपैतीत्युपक्रम्य मनो ह वै देवा मनुष्यस्या- जानन्ति त एनमेतद्व्रतमुपयन्तं विदुःप्रातर्ने यक्ष्यत इति तस्य विश्वे देवा गृहानागच्छन्ति तस्य गृहेषुपवसन्ती' त्यादिना इज्यमानदेवानां गृहावस्थानमुक्तम् । अग्रे षोडशकपालो भवतीत्यादिना तद्देवत्यं कुर्या- दित्युक्तं नह्यव्याप्रियमाणमनुद्दिष्टं चरुपुरोडाशादि तद्दैवत्यै भवत्वत- स्तत्कथं कुर्यामित्याकाङ्क्षायां ओश्रावयास्तुश्रौषड् यज येयजा- महे वौषट् ‘वषकारेणाग्नावेव योनौ रेतोभूतर्ठंसिञ्चन्ति पर्यग्निकृतं पात्नीवतमुत्सजती'त्यादिना प्रक्षेपोत्सर्गाद्यनुकूलकृतरेवावगमात्सा एव विजातीया यजिपदार्थों भवतु । अतएवा'थातोऽधिकार' इति सूत्रीया---

 प्रयत्नरूपो यागोऽयं निष्फलः सुच नेष्यते ।।