पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

ङ्गीकार्या, तथाच तस्या एव साधनत्वेन विधितात्पर्यविषयाया धर्म- त्वं नतु तज्जनकप्रत्यक्षयागादोरित्यर्थः ।।

 ननु यूपपदार्थोद्देशेन तक्षणादिसंस्कारकर्मविधायकस्य यूपं तक्षती'त्यादिवाक्यस्य पयलोचनात्तक्षणादिजन्यसंस्कारविशिष्ट- काष्ठं युपपदवाच्यं । यथा वा वसन्ते ब्राह्मणोऽग्रानादधीत नक्त- ङ्गार्हपत्त्यमादधाति दिवा आहवनीय'मित्यादिवाक्यपर्यालोचनेन- दिवाधानादिसाध्याग्न्यादिराहवनीयादिपदवाच्यस्तथा "आग्नेयो ऽष्टाकपाळो भवत्यमावास्यायां", "ऐन्द्र दधि भवत्यमावास्यायां ऐन्द्रं पयो भवत्यमावास्यायां ‘आग्नेयोऽष्टाकपालो भवति पौर्ण मास्यां" 'ताभ्यामग्नीषोमीयमेकादशकपाल पौर्णमासे प्रायच्छन्’ ‘उ- पांशुयाजमन्तरायजती' इत्यादिवाक्यस्य ‘सास्य देवतेति वाक्य- स्य च पर्यालोचनात् द्रव्यदेवतासम्बन्धो येन व्यापारेण सम्भ- वति तादृशव्यापारो यजिपदवाच्य इति निर्गीयते ।।

 एवं यो यागादिलक्षणं कर्म करोति तं विद आचक्षते धर्मं क- रोति धार्मिक इत्यादिलोकतश्च । एवं शक्तिग्राहकशास्रलोकयोरभा- वान्नापूर्वंयजिपदशाक्तिग्रहः । नच यागगोदोहनादेधर्मत्वे तस्य प्र- त्यक्षत्वेन विध्येकगम्यत्वलक्षणासम्भव इति वाच्यम् । फलसाधन- त्वरूपेण धर्मत्वात् फलस्य च जन्मान्तरभावित्वेन तेनरूपण प्रत्यक्षासम्भवात् । कस्यचिद्वृष्टिपथुपुत्रादिरूपफलस्यैहिकत्वेऽप्यव्य-: वहितोत्तरोत्पत्यभावेन तत्रापि प्रत्यक्षाप्रवृत्तिरेव । अतएव गो- दोहनादिद्रव्यं यागादिक्रिया उच्चैस्त्वादिगुणश्चः फलसाधनत्वाद्ध- मंशब्देनोच्यते नापूर्वोदय इति श्रेयस्करभाष्यमपि सङ्गच्छते इति चेद् ।

 अत्रोच्यते । सत्कार्यवादिनां स्थूलस्यैव सूक्ष्मरूपेणावस्थानात् । स्थूले तादृशव्यापारे जायमानस्य शक्तिग्रहस्य सूक्ष्मविषयकत्वसम्भ- वात् सच व्यापारो देवतोद्देश्यकत्यागविशेषः । अत्रापि देवतोदेश्यक- |