तत्त्वविभाकराख्यव्याख्यासहितसांख्यतत्त्वकौमुद्याः
भूमिका ।
इह खलु संसारे निखिल एव जन्तुरहैर्निशं सुख्यावाप्तये दुःखनिवृत्तये वा भृशं प्रयतमानः समुपलभ्यते । पर तैस्तैरुपायैसुखावाप्तिर्दुःखपरिहारो वा 'सुदूर एव प्रत्युत अधिकतरदुःखभागेव स संन्नवसीदति । तदुक्तं श्रीमद्भागवते--“सुखाय कर्माणि करोति लोको न तैः सुखं वाऽन्यदुपारमं वा । विन्देत भूयस्तत एव दुःखं यदत्र युक्तं भगवन् वदेन्नः" । इति । लौकिकेभ्य एव पदार्थेभ्यो ऽधिगतदुःखत्रयस्यास्याविवेकिनो जनस्य तन्निवृत्तये स्वभावतो दुखरूपाणां तेषामेव लौकिकपदार्थानामनुसरणं पुनः यो यद्विषमूर्छितस्तस्य तेनैव विषेण मूर्छापनयनमनुकरोति । अत एव च वैदिककर्मकलापानां हिंसादिसंकीर्णत्वेन दुःखसाधनत्वात् क्षयिस्वर्गादिफलकत्वाच्च न तैरप्यैकान्तिकात्यन्तिकदुःखनिवृत्तेराशातुषो ऽपि ।
तस्मादात्मनो ऽत्रिगुणस्य स्वभावतो निर्दुःखस्य दुःखादिशीलया प्रकृत्या सममविवेकग्रह एव आत्मतो दुःखित्वाद्यभिमाननिदानमिति अविवेकग्रहनिवृत्त्यैव दुःखत्रयनिवृत्तिः सम्भाविनीत्यालोच्यात्रभवान् परमकारुणिको जगदुद्दिधीर्षुर्मुनिः कपिल आसुरये दुःखत्रयविषण्णाय पञ्चविंशतितत्त्वान्युपदिदेश । भगवानासुरिरपि पंचशिखायोपदिष्टवान्, पञ्चशिखेन तु षष्टितत्रं निरमायि, यदर्थस्य संक्षेपतः प्रतिपादिका इमाः सप्ततिकारिकाः भगवतेश्वरकृष्णेन निर्मिता मुमुक्षुजनहितेच्छया । एतत्कारिकावलम्बभूतस्य पष्टितंत्रस्य अन्यस्य वा ग्रन्थस्य आभ्यः प्राचीनतरस्य सांख्यमतावलम्बिनो ऽनुपलब्ध्या इमा एव कारिकाः मूलप्रमाणभूतसूत्रस्थानीयत्वेन सर्वैरविवादेनाभ्युपगम्यन्ते । अत एव च भगवत्पूज्यपादश्रीशंकराचार्यैरपि ब्रह्मसूत्रभाष्ये सांख्यमतखण्डनावसरे कारिका एव समुद्धृताः । अत एव च कापिलत्वेन प्रसिद्धानां सुत्राणां कापिलत्वे सन्देह एव ।