'च' कारण ‘शेषवत् ’ इत्यपि समुचितम् ॥ ६ ॥
स्यादेतत् , यथा गगनकुसुमकूमेरोमशशविषाणा- दिषु प्रत्यक्षमप्रवर्तमानम्-तदभावमवगमयति, एवं प्रधा- नादिष्वपि । तत्कथं तेषां सामान्यतो दृष्टादिभ्यः सिद्धि- रित्यत आह—
अतिदूरात् सामीप्यात् इन्द्रियघातान्मनोऽनवस्थानात् ।
सौक्ष्म्याद्व्य्य् वधानत् भिभवात् समानाभिह।रञ्च ॥ ७॥
“अतिदूरात्” इति अनुपलब्धरिति वक्ष्यमाणं(का ०८)- सिंहावलोकनन्यायेनानुषञ्जनीयम् । यथा उत्पतन् वियति
धनत्वासम्भवात् । देवतायां-अग्नीषोमाविदं हविरजुषेताम्, ऐन्द्रं
दध्यमावस्यायाम् इत्यादि ।
सामान्यतोदृष्टाद्यथा प्रधानादीनां सिद्धिस्तथा प्रकृतेर्महानित्यादौ स्पष्टमभिधास्यते(क० २२)। शब्दाधिक्यादर्थाधिक्यामिति न्यायेनाह । चकारेणेति । शेषवदुदाहरणं तु पूर्वमुक्तमेव -न विस्मर्त्तव्यम् ॥६ ॥
विमतं नास्ति अनुपलभ्यमानत्वद्गनकुसमादिवदिति शङ्का- निराकरणपरत्वेनार्य्यामवतरति । स्यादेतदिति ।
कोचित्तु ननु प्रकृत्यादौ प्रत्यक्षमेव कथं न प्रवर्तते ? इत्याश ङ्कयां प्रत्यक्षविघटकान् हेतूनाह-' 'आतिदूरादित्यादि’ इत्याहुः । तन्न । दृष्टस्वलक्षणसामान्यविषयं वीतं कुतो न प्रवर्तेत आप्तवचनं वेति, तादृशशङ्कानिराकरणपरत्वे शास्त्रस्य मन्दप्रयोजनत्वापत्तेः, प्रत्यक्षं न प्रवर्तते इत्यद्यध्याहारापत्तेश्च ।
प्रधानादिष्वपीति । तद्वदत्रयभावं गमयेदित्यर्थः । सिंहावलोकितन्यायेनेति[१] । एकमेवास्यं पञ्चसु दिक्षु भ्रामयतीति तदीयस्वभावः । अत एव पञ्चास्य. इत्युच्यते सिंहः । दूरत्वदोषश्च क्वचिन्कश्चिदेव । अन्यथा सूर्यादिमण्डलादर्शनम् ।
१ सिंहावलोकनन्यायेनेत्यपि पाठः ।
- ↑ १