शिनष्टि । सामान्यतोदृष्टादध्यवसायादतीन्द्रियाणां प्रधा-- नपुरुषादीनां प्रतीतिः-चितिच्छायापत्तिर्बुद्धेरध्यवसाय इत्यर्थः । उपलक्षणं चैतत्। शेषवदित्यपि द्रष्टव्यम् ।
तत्किं सर्वेष्वतीन्द्रियेषु सामान्यतोदृष्टमेव प्रवर्त्त्ते ? तथ च यत्र तन्नति-महदाद्यारम्भक्र्मे स्वर्गापूवेदेव- तादौ च, तत्र तेषमभावः प्राप्त इत्यत आह-"तस्मा दपि ’’इति । तस्मादित्येतावतैव सिद्धे
तन्न । क्लिष्टकल्पनापत्तेः, पूर्ववद्व्यावृत्त्यर्थमनुमानपद्स्य सामन्यतो-
दृष्टानुमानपरत्वकल्पनापत्तेश्च, शास्रस्य मन्दप्रयोजनतापत्तेश्च, पूर्वव-
दनुमानस्य विषयाप्रदर्शनेन न्यूनतापत्तेश्च । विशिनष्टि-व्यवर्त्तय-
यतीत्यर्थः । सामान्यतोदृष्टात्-अदृष्टस्त्रलक्षणसामान्यविषयाद
वीत । गृहीतव्याप्तिकेन हेतुना साध्यविषय वृत्तिरनुमानमिति
स्वमतमृचनायाह । अध्यवसायादिति । आदिन[१] (पं० ३)
संयोगसङ्गहः। प्रकृतिपुरुषतत्संयोगा नित्यानुमेया इत्युक्तेः । ज-
डायाः प्रतीतेर्घटादेरिव प्रमेयव्यवहारहेतुत्वाभावादाह । चितीति ।
चितिच्छाया-चैतन्यप्रतिबिम्बः, तस्यापत्तिर्यत्र-चैतन्यप्रतिबि-
म्बाश्रयेत्यर्थः । सा च युद्धेः अन्तःकरणस्याध्यवसायः-वृत्तिरूपप-
रिणामः। अचेतनोषि चेतन इत्र भवतीत्यर्थः । नन्वतीन्द्रियादौ व्य-
तिरेकिणोपि सम्भवात्कथं सामान्यतोदृष्टादेव तत्प्रतीतीरित्यत आह ।
उपलक्षणमिति । शेषवतः अवीतस्य –व्यतिरेकिण इत्यर्थः ।
आगमस्य वैफल्यमाशङ्कते । तत्किमिति । तत्रेष्टापत्तिमाशङ्कय नि-
राकरोति । तथा चेति । पदार्थक्रमेऽनुमानद्वयं न सम्भवति, कार्य
लिङ्गेन कारणानुमानात् । तथा च परोक्षे प्रत्यक्षानुमानयोरविषये
श्रुतिरेव मानं-स्वर्गबोधकं-यन्नदुःखेनत्यादे । स्वर्गकामो यजे-
तेत्यादि--अपूर्वे, अपूर्वं विनाऽऽशुविनाशिनो यागस्य स्वर्गसा-
१ सामान्यतो दृष्टादनुमानादित्यपि पाठः ।
- ↑ १