अप्तग्रहणनाSयुक्ताः शाक्यभिक्षुनिग्रन्थकसंसार- मोचकादीनाम्-आगमाभासः परिहृता भवन्ति । अयु- क्तत्वं चैतेषां विगानात्
जैगीषव्यस्य वहुकल्पानुभूतविषयस्य स्मरणं सम्भवति तदा
किमुत सर्वज्ञस्येश्वरस्येत्यर्थः । अयुक्ताः-बाधितार्था विषयाः ।
शाक्यभिक्ष्वादये-वैनाशिकाविशेषाः । आगमाभासाः
आगमवदभसन्ते इत्यागमाभासः । तत्र सादृश्यं तु-अज्ञातज्ञाप-
कत्वम् । अयुक्तत्वे तु विगानं-श्रुत्यादिविरुद्धत्वं हेतुः, तदेवाह ।
विगानादित्यादि । विगानं तु-बौद्धस्य चत्वारः शिष्या भवन्ति
सौत्रान्तिकवैभापिकयोगाचारमाध्यमिकाः तत्र प्रत्ययवैचित्र्यादर्थो
ऽनुमेय इति सौत्रान्तिकः प्रत्यक्ष इति वैभाषिकः, इति आद्ययो-
रवन्तरमतभेदेपि सर्वांस्तित्ववादिनौ,तृतीयस्तु विज्ञानास्तित्ववादी,
चतुर्थस्तु सर्वशून्यत्ववादी ’ इति । नचेश्वरसत्त्वादिमतभेदेन विगानं
तव मतेप्यस्तीति वाच्यम् । सेश्वरवादे एव तात्पर्योपपाद-
नेन विगानाभावात् । न च तन्मतेपि हीनमध्यमोत्तमशिष्यभेदेन म-
तभेदोपपत्या शून्यरूपैकतत्त्वे एव पर्यवसानान्न वि गानरूपदोष इति
वाच्यम् । प्रमाणविरोधस्यैव मुख्यहेतुत्वात् । न च सर्वस्य सदभि-
मतस्य ‘‘नेहनानास्ति किञ्च न, अस्थूलमनणु” इत्यादिनिषेधादसदेव
परमार्थ इति श्रौतपक्षे निर्णीते स्वाप्नदृष्टान्तेन जाग्रत्प्रपञ्चस्य मिथ्या-
त्वावगमे तद्भाहिप्रत्यक्षप्रमाणविरोधोऽकिञ्चित्कर इति वाच्यम्। ‘स-
न्गूलाः सोम्येमाः सर्वाः प्रजाः सदायतनास्तत्प्रातिष्ठः” इयादिश्रु-
तिविरोधात् । शून्यवादे पूर्वोक्तश्रुतेस्तात्पर्याभावात् । यदीदं सर्वं
शून्यमेव स्यात्तर्हि वन्ध्यापुत्रवदपरोक्षं न स्यात् । न चाऽविद्यया-
तत्सम्भवः। तव मते आवरणीयरूपभावेन निरधिष्ठानंकापरोक्षभ्र-
मासम्मघात् । खे शुण्डकभ्रमस्यापितेजोऽवयवाधिष्ठितत्वात् । न च
शून्यमेव तदधिष्ठानम्, तत्तादात्म्येन प्रतीयापत्तेः । न च स्वाप्न-