नितं वाक्यार्थज्ञानम् ।
तच्च स्वतः प्रमाणम् । अपौरुषेय वेदवाक्यजनितत्वेन सकलदोषाशङ्काविनिर्मुक्तं[१] युक्तं भवति । एवं वेदमू लस्मृतीतिहासपुराणवाक्यजनितमपि ज्ञानं युक्तं भवति।
आदिविदुषश्च कपिलस्य कल्पादौ कल्पान्तराधीत- श्रुतिस्मरणसम्भवः, सुप्तप्रबुद्धस्येत्र पूर्वेद्युरवगतानाम- र्थानामपर्द्युः । तथा च-आवट्यजैगीषव्यसंवादे भगवान् जैगीषव्यो दशमहाकल्पवर्तिजन्मस्मरणमात्मन उवाच ‘दशसु महाकल्पेषु विपरिवर्तमानेन मया” इत्यादिना ग्रन्थसन्दर्येण ।
अपौरुषेयेति । अपौरूषेयत्वं तु सजातीयोच्चारणपेक्षोच्चरणविषय-
त्वम् । सकलेति । दोषा-विप्रलिप्साकरणपाटवादय: , तद्र-
हितम् । युक्तं भवतीति । अबाधितार्थविषयं भवतीत्यर्थः ।
श्रुति(पृ० १६१ पं० ४) ग्रहणेनेतिहासादीनां वेदमूलकत्वेन लौ-
किकवाक्यानां तु प्रत्यक्षानुमानादिमूलकत्वेन प्रामाण्यमिति सूचि
तम् । तदेव दर्शयति । एवमित्यादिना ।
केचित्तु-‘यथार्थज्ञानवानाप्तः श्रूयते इति श्रुतिः-वत्रयम् । तथा चाप्तोक्तवाक्यत्वं लक्षणं पर्यवसितम् इत्याहुः ।
ननु गतकल्पीयवेदस्मरणमस्मदादीनां न सम्भवत्या- शङ्क्याह । आदिविदुषश्चेति । विदुषः सर्वज्ञस्येत्यर्थः । ‘ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्त्ति'(श्वे ०५।२) इति श्रुतेः। अत्रेश्व रप्रतिषेधस्यैश्वर्य्य वैराग्यद्यर्थमनुवदान्न विरोधः । अन्यथा लो- कायतिकमतानुसारेण नित्यैश्वर्यं न प्रतिषिध्येत तदा पूर्णनिर्य नदोषैश्वर्यदर्शनेन तत्र चितावेशतो विवेकाभ्यासप्रतिबन्धा- पत्तेः । तत्र. कैमुतिकन्याय महि । तथा चेति । यदि योगीन्द्रस्य
१ विनिर्मुक्तेरितिपाठः ।
- ↑ १